SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ ३७२ ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० ४. सू० २६-२८.] रेवत-रोहिणाद् भे ॥ २. ४. २६ ॥ भं-नक्षत्रम्, रेवत-रोहिणाभ्यां नक्षत्रशब्दाभ्यां स्त्रियां ङीर्भवति । रेवती, रोहिणी । यदापि "चित्रारेवती-रोहिण्याः स्त्रियाम्' [६. ३. १०८.] इति जाता यस्याणो लुकि डीप्रत्ययस्यापि लुग् भवति, तदापि नक्षत्रशब्दत्वात् पुनरनेन ङीर्भवति-रेवत्यां जाता-रेवती, रोहिण्यां जाता-- 5 रोहिणीति । भ इति किम् ? रेवता, रोहिणा । कथं "रेवतीरमणो बलः, रेवती, शुष्करेवती ?" रेवच्छब्दो मत्वर्थीयान्तोऽस्ति, तत उदिल्लक्षणो ङीः । कथं रोहिणी ?, कटुरोहिणी ? रोहिणशब्दः प्रकृत्यन्तरमस्ति, ततो जातिलक्षणो डीभविष्यति ॥ २६ ॥ न्या० स०-रेवत-रो०। रेवत्यां जाता रेवतीति-अत्र कन्या वाच्या, ततो10 गौणोऽपि रेवतीशब्दो नक्षत्रे वर्तते। ननु “गौरादिभ्यः" [२. ४. १६.] इत्यतो मुख्याधिकारे मुख्यादेव प्राप्नोति, तत् कथमत्र गौणात् ?, सत्यम्-मुख्याधिकारेऽपि क्वाऽपि शाब्दया वृत्त्या क्वाऽप्यार्थ्या वृत्त्या प्राधान्यं ग्राह्यम्, अत्र तावदार्थ्या वृत्त्या प्राधान्यम्, कथं? नक्षत्रलक्षणोऽर्थो यदि वाच्यो न भवेत् तदा कथं तद्विशिष्टः कालो वाच्यः स्यादमुना प्रकारेणेति । कथं रेवतीति-रीङच रीयते विच गुणः, रेमथोऽस्यास्ति15 मत् "नाम्नि" [ २. १. ६५. ] वत्वम् । रोहिणीति-स्त्रीपर्यायत्वादत्र रोहिणशब्दस्यानक्षत्रार्थाद् डीन प्राप्नोतीत्याशङ्का। प्रकृत्यन्तरमिति-अर्थभेदात् प्रकृतिभेद इत्यर्थः । २. ४. २६ ॥ नीलात् प्राण्यौषध्योः ॥ २. ४. २७ ॥ नीलशब्दात् प्राणिनि औषधौ. च स्त्रियां ङीर्भवति। नीली वडवा,200 नीली गौः, नीली औषधिः । प्राण्यौषध्योरिति किम् ? नीला शाटी ॥ २७ ।। न्या० स०-नी०। नीलीत्यत्र जातिशब्दादपि जातौ नित्यस्त्रीत्वात "जाते:०" [ २. ४. ५४. ] इत्यप्राप्तेऽने नैव ङीः। ये तु नील: पट इत्यर्थान्तरेऽस्त्र्यर्थस्यापि दर्शनादनित्यं स्त्रीत्वमभ्युपगच्छन्ति तेषां गुणशब्दस्यैवेदमुदाहरणम् , जातिशब्दात् तु “जाते:"25 [ २. ४. ५४. ] इति डीः सिद्ध एव ।। २. ४. २७ ।। क्ताच्च नाम्नि वा ।। २. ४. २८ ॥ नीलशब्दात् तान्ताच्च शब्दरूपात् स्त्रियां ङीर्वा भवति, नाम्नि
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy