________________
[पा० ४. सू० २६-३०.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३७३
संज्ञायाम् । नीली, नीला; प्रबद्धा चासौ विलूना चेति प्रबद्धविलूनी, प्रबद्धविलूना ।। २८ ।।
न्या० स०-०क्ताच्च० । प्रबद्धा चासो विलूना चेतीति-अर्थकथनमिदं, प्रबद्धश्चासौ विलूनश्च स्त्री चेदिति तु कार्यम्, अन्यथा गौणत्वाभावात् “गोश्चान्त०" [ २. ४. ६६. ] इत्यत्राप्रवृत्तावदन्तत्वाभावाद् डीन स्यात्, औषधिविशेषः, अखण्ड: संज्ञाशब्दः, व्युत्पत्ति- 5 मात्रमिदम् ।। २. ४. २८ ।। केवल-मामक-भागधेय-पापा-अपर समामा-अर्यकृत
सुमनल-भेषजात् ॥ २. ४. २६ ॥ एभ्यः स्त्रियां ङीर्भवति, नाम्नि। केवली नाम ज्योतिः, मामकी, भागधेयी, पापी, अपरी, समानी, आर्यकृती, सुमङ्गली, भेषजी। नाम्नीति10 किम् ? केवला। मामकशब्दादबन्तत्वेनैव ङीसिद्धौ नाम्नि नियम्यते, तेनमामिका बुद्धिरित्यसंज्ञायामञ्लक्षणोऽपि डीन भवति ।। २६ ।।
न्या० स०-केवल-माम। केवलीति-केव्यते-सेव्यते केवलिभिरिति "मृदिकन्दि-कुण्डि०" [ उणा० ४६५. ] इत्यलः। मामकशब्दादिति-ननु कथं मामकग्रहणं नियमार्थ ? शोभनो मामकोऽस्याः सुमामकेत्यत्र तदन्तविधेरिष्टत्वाद् विध्यर्थताप्युपपद्यत 15 एव, विधि-नियमसंभवे हि विधेरेव ज्यायस्त्वात्; सत्यामपि वा नियमार्थतायां विपरीतनियमः कस्मान्न भवति-मामकशब्दस्यैव नाम्नीति; अत्रोच्यते-इह प्रकरणे तदन्तविधेरिष्टत्वेऽपि मुख्याधिकारादमुख्यमामकशब्दान्तान्न ङी:, केवलैरेव चेतैः संज्ञाप्रतीतिर्न त्वमुख्यतदन्तैः, अत एव केवला एव केवलादय उदाहृता न कृतसमासा इत्युपपद्यत एव नियमार्थता; विपरीतनियमोऽपि न भवति, तदा हि केवलादीनामपि संज्ञायां डीनिवत्तित:20 स्यात्, संज्ञापि बाध्येति तेषां वैषम्यं स्यात्, यथोक्तनियमे तु न किञ्चिन्नोपपद्यत इति । अपरीति-पिपर्तीति अचि परः, तस्य नसमासेऽपरी। मेषजीति-"भेषग् भये" घत्रि भेषं जयति “क्वचित्" [५. १. १७१. ] इति डे। मामकी-मातुली। भागधेयी-बलिः । पापी, अपरी 'प्रोषष्यो। समानी छन्दः । आर्यकृती क्रियाविशेषः। सुमङ्गली छन्द ओषधिर्वा । मेषजी ओषधिः ।। २. ४. २६ ।।
25
भाज-गोण-नाग-स्थल-कुण्ड-काल-कुश कामुक-कटकबरात् पक्वा-वपन-स्थूला-अकृत्रिमा-अमत्र-कृष्णा-अयसी
रिरंसु-श्रोणि केशपाशे ॥२. ४. ३० ॥ भाजादिभ्यो दशभ्यो यथासंख्यं पक्वादिष्वर्थेषु स्त्रियां ङीर्भवति, नाम्नि ।