________________
३६४ ]
बृहद्वृत्ति - लघुन्याससंवलिते
[ पा० ४. सू० १८-१६.]
[ २.४. ६. ] इति ङीः स्यात् । "वा पाद:" [ २.४. ६. ] इति प्राप्तेऽयमारभ्यते
।। २. ४. १७ ॥
आत् ॥ २.४. १८ ॥
अकारान्तान्नाम्नः स्त्रियां वर्तमानादाप् प्रत्ययो भवति । खट्वा, सर्वा, या, सा । खट्वादीनामकारान्तत्वम् - प्रतिखट्वः, प्रियखट्वः पञ्चभिः s खट्वाभिः क्रीतः - पञ्चखट्व इत्यादिप्रयोगदर्शनात्, उपदेशाच्च निश्चीयते । आदिति किम् ? सोमपाः स्त्री, दृषद्, समिद्, प्रादित्यधिकृतमुत्तरत्र यथासम्भवं योजनीयम् ।। १८ ।।
न्या० स०-- श्रात् । ननु या सेत्यादीनां 'यः, स:' इत्यादावकारान्तप्रयोगदर्शनादकारान्तत्वनिर्णयादस्तु तत आप्, खट्वादीनां तु नित्यं स्त्रियां वर्त्तमानत्वादकारान्त-10 प्रयोगादर्शनात् तदनिश्वयात् कथं तेभ्य श्रावित्याशङ्कयाह- खट्वादीनामिति । उपदेशाच्चेति यद्यकारान्तो न स्यात् ततो नाबन्त इति तस्यापद्वारेण ह्रस्वोऽपि न स्यादित्यर्थः । श्रादिति किमिति प्रवर्णादिति क्रियतामित्यर्थः । सोमपाः स्त्रीति-सोमं पिबतीति विच्, प्रादिति वचनादत्राप् न भवति । ननु चात्राप्भावाभावयोराकारश्रुतेस्तथैवं विद्यमानत्वात् किं तद्भावेन विनश्यतीति ? उच्यते - आपि सति “दीर्घङयाब्०" 15 [ १. ४. ४५ . ] इति सेर्लोपः स्यात्, तथा सोमपः कन्याः पश्येत्यत्र " लुगातोऽनापः " [२. १. १०७.] इति शसि लुग्न स्यात् ॥ २. ४. १८ ।।
गौरादिभ्यो मुख्यान्ङी' ॥ २. ४. १६ ॥
गौरादेर्गणान्मुख्यात् स्त्रियां ङीः प्रत्ययो भवति, मुख्यादित्यधिकारोऽयम् । गौरी, शबली । गौर, शबल, कल्माष, सारङ्ग, पिशङ्ग, हरिण, 20 पाण्डुर, अमर, सुन्दर, विकल, विष्कल, पुष्कल, निष्कल; गौरादीनां गुणवचनत्वेनाजातिवाचित्वादप्राप्ते पाठः । यस्तु विकलेति कालविशेषवाची प्राबन्तः स विगता कलेति भविष्यति । दास, चेट, विट, भिक्षुक, बन्धक, पुत्र, गायत्र, श्रानन्द, टेट, कटेट, नट; एषामजातिवचनत्वादप्राप्ते पाठः । काव्य, शैव्य, मत्स्य, मनुष्य, मुकय, हय, गवय, ऋश्य, द्रुण, प्रकरण; एषां जातिवाचित्वेऽ-25 प्यष्टानां यान्तत्वाद् द्र गौकरणयोनित्यस्त्रीविषयत्वादप्राप्ते पाठः । भौरिकि, भौलिक, भौलिङ्गि, प्रौद्गाहमानि प्रालम्बि आलच्चि, कालच्चि, सौधर्म,