SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ ३६२ ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० ४. सू० १५-१६.] __ ताभ्यां वापडित् ॥ २. ४. १५ ॥ मन्नन्तानाम्नोऽन्नन्ताच्च बहुव्रीहेः स्त्रियामाप् प्रत्ययो वा भवति, स च डित्; पक्षे यथाप्राप्तम् । सीमे, सीमाः; सुपर्वे, सुपर्वाः; पक्षे पूर्वाभ्यां प्रतिषेधाद् डीन भवति-सीमानौ, सीमानः; सुपर्वाणौ, सुपर्वाणः । उपान्त्यलोपिनस्तु बहुव्रीहेमरपि भवति-बहुराजे, बहुराजाः; बहुराजानौ, बहुराजानः; 5 बहुराश्यौ, बहुराज्यः । उद्दामाम्, उद्दामानम्, उद्दाम्नी वडवां पश्य । “दातुं प्रदानोचित-भूरिधाम्नीमुपागतः सिद्धिमिवास्मि विद्याम् ।” [किराता स० ३.] । एवमुपान्त्यलोपिनोऽन्नन्तस्य बहुव्रीहेः स्त्रियां डीडाप्विकल्पाभ्यां त्रैरूप्यम् । उपान्त्यवतस्तु डाप्प्रतिषेधाभ्यां द्वै रूप्यं भवति । डित्करणमन्त्यस्वरादिलोपार्थम् । डाप् इत्यकृत्वा डिद्विधानमुत्तरत्राप एवानु-10 वृत्त्यर्थम् ।। १५ ॥ __न्या० स०--ताभ्यां वा। पूर्वाभ्यामिति-"मनः" [२. ४. १४.] "नोपान्त्यवतः" [ २. ४. १३. ] इत्येताभ्याम् । “महत्त्वयोगाय महामहिम्नामाराधनी तां नृपदेवतानाम् । दातुं प्रदानोचितभूरिधाम्नीमुपागतः सिद्धिमिवास्मि विद्याम् ।।" 15 रूप्यमिति-"वा बहवीहेः" [२. ४. ५. 1 इति वचनात् वन्नन्तस्यापि त्रैरूप्यं, तेन सुधीवे, सुधीवानौ सुधीवयौं । २. ४. १५ ॥ अजादेः ॥ २. ४. १६ ॥ अजादिभ्य आवृत्त्याऽजादीनामेव स्त्रियां वर्तमानेभ्य प्राप् प्रत्ययो भवति, बाधकबाधनार्थमनकारार्थं च वचनम् । अजा, एडका, अश्रा, चटका, मूषिका,20 कोकिला; एभ्यो जातिलक्षणस्य ङीप्रत्ययस्यापवाद आप ; बाला, होडा, पाका, वत्सा, मन्दा, विलाता, कन्या, मध्या, मुग्धा; विलातेत्यन्ये न पठन्ति, तेनविलातीत्यपि, एभ्यो वयोलक्षणस्य; ज्येष्ठा, कनिष्ठा, मध्यमा; एभ्यो धवयोगलक्षणस्य च; पूर्वापहाणा, अपरापहाणा, निपातनाद् गत्वम्, संप्रहाणा, परप्रहाणेत्यप्यन्ये, एषु टिल्लक्षणस्य; त्रीणि फलानि समाहृतानि25 त्रिफला, अत्र द्विगुलक्षणस्य । क्रुञ्चा, देवविशा, उष्णिहा; एषु व्यञ्जनान्त
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy