SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ [पा० ४. सू० १३-१४.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३६१ सुराज्ञी नाम ग्रामः; बहुराज्ञी, बहुसाम्नी नाम पुरी; अयमप्युपान्त्यलोपवत एव विधिः, नित्यार्थ वचनम्, तेन पक्षे डाप् विकल्पेन न भवति ॥ १२ ॥ नोपान्त्यवतः ॥ २. ४. १३ ॥ यस्य उपान्त्यलोपो नास्ति स उपान्त्यवान्, तस्मादन्नन्ताद् बहुव्रीहेः स्त्रियां ङीन भवति । नायम् "अनो वा" [२. ४. ११.] इति सूत्रविहितस्यैव 5 प्रतिषेधः, किन्तु "स्त्रियां नृतो०" [२. ४. १.] इत्यस्यापि । सुपर्वा, सुपर्वाणौ; सुशर्मा, सुशर्माणौ; प्रियश्वा, प्रियश्वानी। उपान्त्यवत इति किम् ? बहुराज्ञी। बहुव्रीहेरित्येव-अतिपर्वणी यष्टिः । अन इत्येवसदण्डिनी ॥ १३ ॥ न्या० स०-नोपान्स्य० । उपान्त्यलोपो नास्तीति-"न वमन्तसंयोगात्" [ २. १.10 १११.] इति निषेषेनेत्यर्थः। स्त्रियां नत इत्यस्यापीति-अन्यथा “अनोऽनुपान्त्यवतो वा" इत्येकयोगः क्रियेत। प्रतिपर्वणीत्यत्राव्युत्पत्तिपक्षाश्रयणात् "स्वराघोष" [ २. ४. ४. ] इति ङी रश्च न भवति, किन्तु नान्तत्वात् "स्त्रियां नृतः०" [२. ४. १.] इत्यनेन [ङी:] । सदण्डिनीति-अत्र "इनः कच्" [७. ३. १७०.] इति कच् प्राप्त: "सहात् तुल्ययोगे" [ ७. ३. १७८. ] इति निषिध्यते ।। २. ४. १३ ।। 15 मनः ॥ २. ४. १४ ॥ मनन्तानाम्नः स्त्रियां ङीन भवति । सीमा, सीमानौ; पामा, पामानौ । कानिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधि प्रयोजयन्ति, तेन महिमानमतिक्रान्ता-अतिमहिमेत्यादावपि ङीप्रतिषेधो भवति । बहुव्रीहेरिति निवृत्तं, योगविभागात् ।। १४ ।। 20 न्या० स०-मनः। डोनं भवतीति-बहुव्रीहौ मन्नन्तेऽपि अन्नन्तद्वारा डीभवत्येव, यथा “दातु प्रदानोचितभूरिधाम्नीम्" [ किराता० स. ३.] इति । प्रतिमहिमेत्यत्र अतिक्रान्तो महिमा ययेति बहुव्रीही "अनो वा" [२. ४. ११. ] इत्यस्य "मनः" [२. ४. १४. ] इत्यस्य च द्वयोरन्यत्र चरितार्थत्वात् परत्वात् प्राप्तमपि प्रतिषेधं बाधित्वा विशेषविहितत्वाद् "अनोवा" [ २. ४. ११.] इति विकल्प एव । योगविभागादिति-न25 मन्नुपान्त्यवद्भ्यामित्येवंरूपात् ।। २. ४. १४ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy