________________
[पा० ३. सू० ६७-६८.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३५१
यद्येवं तहि क्षुम्नीत इत्यादौ णत्वशास्त्रस्य परेऽसत्त्वादीकारादौ कृते क्षुम्नेति रूपाभावान्न प्राप्नोति. उच्यते-स्वरादेशस्य स्थानिवद्धावादेकदेशविकृतस्यानन्यत्वाद वा भविष्यतीत्यदोषः । बहुवचनेन चास्याकृतिगणता द्योत्यते, तेनान्योऽप्यविहितलक्षणो णत्वप्रतिषेधः क्षुम्नादिषु द्रष्टव्यः, तेन धनदवाचकनरवाहनशब्दस्य न एणत्वम् । नुनमेत्येक इतिअविभक्तिको निर्देशः, अकारान्तस्त्वयं ज्ञातव्यः ।। २. ३. ६६ ।।
पाठे धात्वादेणों नः ॥ २. ३. ६७ ॥
पाठविषये धात्वादेर्णकारस्य नकार आदेशो भवति । णीग्-नयति, णम्-नमति, णह-नह्यति । पाठ इति किम् ?, णकारीयति । धात्विति किम् ? . णकारः । प्रादेरिति किम् ? भणति । सर्वे च नादयो णोपदेशाःनृति, नन्दि, नदि, नशि, नाटि, नक्कि, नाधृ, नाथ, नृ वर्जम् । नाटीति “नटण 10 अवस्यन्दने” इत्यस्य वर्जनम्, भौवादिकस्य तु “णट नृत्तौ” इत्यस्य-प्रणटति, प्रणाटयति। णोपदेशश्च षां “णहिनुमीनानेः" इत्यस्य विषयव्यवस्थार्थः ।। ६७ ।।
न्या० स०--पाठे धा। नन्वादिग्रहणं किमर्थं ? तमन्तरेणापि णोपदेशबलान्नत्वं न भविष्यति, अन्यथा भनित्येव पठ्येत, नैवम्-णोपदेशस्य "अदुरुपसर्ग." [ २. ३. ७७. ] इति णत्वे फलमस्ति, तथाहि-उपसर्गपूर्वस्य प्रभणति, अन्यत्र तु भनतीति15 स्यादित्यादिग्रहणं कर्तव्यमेव । पाठ इति किमिति-पाठ इत्यनेन धातूपदेशस्य ग्रहणापणकारीयतेरनुपदेशान्नत्वाभावः । अथैते नादय एव पठ्यन्तां, तथा च सति नेदमारब्धव्यं भवतीत्याह-पोपदेशश्चेति, एवमुत्तरत्र षोपदेशेऽपि ।। २. ३. ६७ ।।
घः सोऽष्टये-ष्टिव-sवष्कः ॥ २. ३. ९८ ॥
पाठे धात्वादेः षकारस्य सकार आदेशो भवति, न चेत् षकारः ष्ट्य -20 ष्टिव-ष्वष्कसंबन्धी भवति । षहि-सहते । षिच-सिञ्चति । पाठ इत्येवषण्ढीयति । धात्वित्येव-षण्ढः । आदेरित्येव-लषति । ष्टयादिवर्जनं किम् ? ष्टयायति, ष्टीवति, ष्टीव्यति, ष्वष्कते । स्वर-दन्त्यपरसकारादयः स्मि-स्विदिस्वदि-स्वञ्जि-स्वपयश्च षोपदेशा, सृपि, सृजि, स्त्या, स्तृ., स्तृ, सू, सेकृवर्जम् । षोपदेशश्च षां षत्वविषयव्यवस्थार्थः ।। ६८ ।।
25
न्या० स०--षः सोऽष्टच । न च वाच्यमत्राप्यादेरित्यधिकाराभावेऽपि पाठबलादेव लषतीत्यादौ सत्वं न भविष्यति, अन्यथा लस् इति कुर्यात्, यतः षकरणस्यान्यदपि