________________
[पा० ३. सू० ६५-६६.]
प्रज्जन्ति, प्राघ्नन्, प्राधानि, प्रघानिष्यते इत्यादिषु तु “हनः " [२. ३. ८२. ] इति प्राप्ते प्रतिषेधः । हन इति किम् ? अर्घेण परिघेण । वृत्रहणौ, प्रहणनम् ।। ६४ ।।
घीति किम् ?
३५० ]
बृहद्वृत्ति-लघुन्याससंवलिते
नृतेर्यङि ॥ २. ३. ६५ ॥
नृतेर्धातोर्नकारस्य यविषये णो न भवति । नरीनृत्यते, नरिनर्ति, 5 नर्नति, नरीनृतीति; अत्र " रषृवर्णात् ० " [२. ३. ६३ ] इत्यादिना प्राप्तिः । यङीति किम् ? हरिरिव नृत्यतीति हरिणर्ती नाम कश्चित्, “पूर्वपदस्थान्नाम्न्यगः” [२. ३. ६४.] इति णत्वम् ।। ६५ ।।
न्या० स० - नृतेर्यङि । हरिगर्त्तीत्यत्र "कर्तु णिन् ” [ ५.१.१५३. ] ।। २.३.ε५।। क्षुभ्नादीनाम् ॥ २. ३. ६६ ।।
10
क्षुभ्ना इत्येवमादीनां नकारस्य णो न भवति । क्षुभ्नाति क्षुभ्नीतः, क्षुभ्नन्ति, क्षुभ्नन्, क्षुभ्नानः; तृप्नोति, तृप्नुतः, तृप्नुवन्ति, तृप्नुवन्, तृप्नुवानः ; आचार्यस्य भार्या - आचार्यानी, आचार्यस्य भोग आचार्यभोगस्तस्मै हित आचार्य भोगीन:; एषु " रषृवर्णात् " [ २. ३. ६३ ] इत्यादिना प्राप्ते, सर्वनाम, नृनमन:, परिनृत्तम्, गुरुनृत्तम्, परिवर्तनम्, ग्रामनटः, शरनदः, शरनदी, गिरि- 15 नगरम्, परिनिवेशः, श्रीनिवासः, शबराग्निः, दर्भानूपः, हरिनन्दी, हरिनन्दनः, गिरिगहनम् ; एषु “पूर्वपदस्थात् ०" [२. ३. ६४ ] इत्यादिना प्राप्ते, परिनदनम् - अत्र “अदुरुपसर्गान्तरो०” [ २. ३. ७७.] इत्यादिना प्राप्ते; सुप्रख्येन, अत्र " कवर्गेकस्वरवति” [२. ३. ७६ ] इति प्राप्ते प्रतिषेधः । क्षुभ्ना, तृप्नु, आचार्यानी, प्राचार्यभोगीन, सर्वनामन्, नूनमन, नृनमेत्येके ; 20 नृत्त, नर्तन, नट, नद, नड इत्येके; नदी, नगर, निवेश, निवास, अग्नि, अनूप, नन्दिन्, नन्दन, गहन, नदन; ख्याग् इति क्षुम्नादि: । बहुवचनमाकृतिगणार्थम् ।। १६ ।।
न्या० स० - क्षुम्नादीनाम् । क्षुम्नेति लुप्ततिनिर्देशेन धातुग्रहणं, न तु यङलु निवृत्त्यर्थम्, अनुबन्धनिर्देशे हि क्षोभणमित्यत्रापि स्यात्, एवं तृप्नु इत्यत्रापि 125