________________
[पा० ३. सू० ६३-६४.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३४६
विधं व्याख्यानं न सर्वत्रापि युक्त, किं त्वभिप्रेतसिद्धयर्थ क्वचिदेव ; यद्वा कुत्सिताद्यर्थे कप् तदा निर्विवादमेव ।। २. ३. ६२ ।।।
पदेऽन्तरे नायतद्धिते ॥ २. ३. ६३ ॥
प्राङन्तं तद्धितान्तं च वर्जयित्वाऽन्यस्मिन् पदे निमित्त-निमित्तिनोरन्तरे व्यवधायके नकारस्य णो न भवति । प्रावनद्धम्, पर्यवनीतम्, माषकुम्भवापेन, 5 व्रीहिकुम्भवापेन, चतुरङ्गयोगेन, भर्तृ बाहयुग्मेन, रोषभीममुखेन । अत्र यदा माषकुम्भस्य वाप इति, माषाः कुम्भो वापोऽस्येति वा समासस्तदा "वोत्तरपदान्तनस्यादे०" [२. ३. ७५.] इति विकल्पे प्राप्त प्रतिषेधः, यदा तु माषस्य कुम्भवाप इति तदा “कवर्गकस्वरवति" [२. ३. ७६.] इति नित्ये प्राप्ते; एवं शेषेष्वपि यथासंभवं वाच्यम् । अन्ये तु माषाणां कुम्भवाप इति10 व्यवधायकस्योत्तरपदावयवत्वे प्रतिषेधं नेच्छन्ति, तन्मते-माषकुम्भवापेरणेत्यादौ नित्यमेव णत्वम् । अपरे तु माषकुम्भस्य वाप इति व्यवधायकस्य पूर्वपदावयवत्वे प्रतिषेधं नेच्छन्ति, तन्मते-माषकुम्भवापेण, माषकुम्भवापेनेत्यादौ विकल्प एव भवति । अनाङीति किम् ? प्राणद्धम्, पर्याणद्धम् ; प्रण्यास्यति, प्रण्यापचति । अतद्धित इति किम् ? आर्द्र गोमयेण, शुष्कगोमयेण, परमापूपमयेण,15 यूषयावकेण ।। ६३ ।।
न्या० स०--पदेऽन्तरे० । चतुरङ्गयोगेन-अत्र “कवर्गक०" [ २. ३. ७६. ] इति प्राप्त निषिध्यते । 'माषकुम्भस्य वापः, माषस्य कुम्भवापः' इत्यस्मिश्च वाक्ये "वृत्त्यन्तोऽसषे" [ १. १. २५. ] इति पदसंज्ञानिषेधेऽपि भूतपूर्वकपदत्वमाश्रीयते । कवर्गकस्वरवति इति-कवर्गाशेन विशेषविहितत्वात, न त "वोत्तर०" [२.३.७५. ] विकल्पः । यूषयावकेणेति-यवानां विकारः “विकारे" [६. २. ३०.] अण वृद्धिः, याव एव “यावादिभ्यः कः" [७. ३. १५. ] यूषेण-मांसमुद्गादिरसेन, मिश्रः, यावक:अलक्तकः-यूषयावकस्तेन ।। २. ३. ६३ ।।
हनो घि ।। २. ३. ६४ ॥
हन्तेर्नकारस्य घकारे निमित्त-निमित्तिनोरन्तरे सति णो न भवति ।25 वृत्रघ्ने, वृत्रघ्ना, वृत्रघ्नः; ब्रह्मघ्नः; शत्रुघ्नः। संज्ञायां "पूर्वपदस्थान्नाम्न्यगः" [२. ३. ६४.] इति, असंज्ञायां तु "कवर्गकस्वरवति" [२. ३. ७६.] इति ;