________________
३४८ ]
बृहवृत्तिलचुन्याससंवलिते
[पा० ३. सू० ६१-६२.]
प्रकथने" इत्यस्य च परिग्रहार्थम् । नित्यमिति-"स्वरात्" [२. ३. ८५.] इत्यनेन । वेपो विकल्पेनेति-"व्यञ्जनादे म्युपा०" [२. ३. ८७. ] इत्यनेन । ण्यन्तेभ्यश्चेति"णेर्वा" [ २. ३. ८७. ] इत्यनेन ।। २. ३. ६० ॥
देशेऽन्तरोऽयन-हनः ।। २. ३. ६१ ॥
अन्तःशब्दात् परस्यायनशब्दस्य हन्तेश्च संबन्धिनो नकारस्य देशेऽभिधेये 5 णो न भवति । अन्तरय्यतेऽस्मिन्निति-अन्तरयनो देशः, एवमन्तहननो देशः । देश इति किम् ? अन्तरयणं वर्तते, अन्तर्हणनम्, अन्तहेण्यते । अन्तर्घणो देश इति तु निपातनात् । अन्तर इति किम् ? प्रायणो देशः, प्रहणनो देशः । अयन-हन इति किम् ? अन्तर्णमनो देशः ।। ६१ ।।
न्या० स०--देशेऽन्तरो० । “स्वरात्" [ २.३ ८५.] इति "हनः" [२.३.८२.] 10 इति च यथासंख्यं प्राप्ते प्रतिषेधः । अन्तर्घण इति-"हनोऽन्तर्घनान्त०" [ ५. ३. ३४. ] इत्यलन्तो निपात्यते, वाहीकेषु देशविशेषस्येयं संज्ञा। प्रायणो देश इति-इं दु, इण्क् वा, प्रेयतेऽस्मिन्निति अनटि "स्वरा" [ २. ३. ८५. ] इति णत्वे, अयतौ तु "उपसर्गस्यायौ" [२.३.१००.] इति लत्वं स्यात् ।। २. ३.६१ ॥
15
षात् पदे ॥२. ३. ६२ ॥
पदे परतो यः षकारस्तस्मानिमित्तात् परस्य नकारस्य णो न भवति । सर्पिष्पानम्, यजुष्पानम्, दुष्पानम् ; अत्र “पानस्य भाव-करणे" [२. ३. ६६.] इति, निष्पानमिति “स्वरात्" [२. ३. ८५.] इति, निष्पायनमिति "गर्वा" [२. ३. ८८.] इति प्राप्त प्रतिषेधः । षादिति किम् ? निर्णयः, निर्याणम् । पद इति किम् ? पुष्णाति, सर्पिष्केण ।। ६२ ।।
20
न्या० स०--षात् पदे। सर्पिष्पानमिति-नन्वत्र षकाराश्रितं मा भूण्णत्वं, सपिस्थरेफाश्रितं कथं नहि ? उच्यते-यत्रोत्पद्यमानस्य गत्वस्य निमित्तद्वयं भवति तत्र प्रत्यासत्त्याऽनन्तरमेव गह्यते इति । सपिष्केरणेति-सपिः कायतीति सपिस अम् काधातूः अग्रे इति स्थिते क इत्यस्याविभक्त्यन्तत्वात् पदत्वाभाव इति नानेन गत्वप्रतिषेधः । ननूत्तरपदमपि पदमुच्यते यथा "वेदूतोऽनव्यय०" [२. ४. ६८.] इत्यत्र पदे इत्युक्त ऽपि 25 उत्तरपदे इति वृत्तिकृता व्याख्यानात्, तद्वदिहापि पदे इत्युक्त ऽपि उत्तरपदमपि लप्स्यते, तत् कथं सर्पिष्केणेत्यत्र व्यावृत्तिः ? सत्यम्-नानिष्टार्था शास्त्रप्रवृत्तिः इति न्यायादेवं