________________
३५२ ]
बृहवृत्ति-लघुन्याससंवलिते
[पा० ३. सू० ६६-१००.]
फलमस्ति, यथा कृतत्वात् परोक्षायां षत्वे विलेषुरित्यादि सिद्धयति, न-आदिग्रहणाभावे प्रस्तुते लसतीति स्यात् ।। २. ३.६८ ।।
ऋ-र लू-लं कृपोकपीटादिषु ॥ २. ३. ६६ ॥
कृपेर्धातोऋकारस्य लुकारो रेफस्य च लकार आदेशो भवति, स चेत् कृपिः कृपीटादिविषयो न भवति । क्लृप्तः, क्लृप्तवान्, क्लृप्यते, चिक्लप्सति, 5 अचीक्लपत्, कल्पते, कल्पयति, कल्पिता, कल्प्ता, कल्पकः, कल्पः, चलीक्लृप्यते, चलोकल्प्ति । अकृपीटादिष्विति किम् ? कृपीटम्, कृपणः, कृपाणः; कृपः, कर्पूरः, कर्परः; कर्पटः, कर्पटिः; इत्यादि । बहुवचनमाकृतिगरणार्थम् ।। ६६ ।।
न्या० स०--ऋर ललम् । अथ 'वर्णैकदेशा वर्णग्रहणेन गृह्यन्ते' इत्यस्यापि10 पक्षस्याश्रितत्वाद् लकार-लकारयोरेफ-लकारग्रहणेनैव ग्रहणात् किं द्वयोरुपादानेन ? "कृपे रो लः" इत्येव क्रियताम्, नैवम्-क्वचिद् वर्णैकदेशानां वर्णग्रहणेनाग्रहणमिति ज्ञापनार्थन् । "दूरादामन्त्र्यस्य०" [ ७. ४. ६६. ] इत्यत्र ऋजितस्य स्वरस्य प्लुतत्वं वदन् स्वरद्वारेणैव सिद्धे पुनरपि यत लकारग्रहणं करोति तदेव बोधयति-ऋत्प्रतिषेधे लुतोऽपि प्रतिषेधप्रसङ्ग इति ऋकारापदिष्टं कार्य लकारस्यापि इति । अचोक्लपत् अत्र "ऋवर्णस्य"15 [४. २. ३७.] "ऋतोऽत्" [ ४. १. ३८. ], अत एव च 'चलोकृप्यते' इत्यादौ — ऋमतां रीः" [४. १. ५५.] "रि-रौ च लुपि” [४. १. ५६.] इति सिद्धम् ।। २. ३. ६६ ।।
उपसर्गस्याऽयौ ॥ २. ३. १०० ॥
उपसर्गसंबन्धिनो रेफस्य "अयि गतौ” इत्यस्मिन् धातौ परे लकारादेशो भवति । प्लायते, पलायते, पल्ययते, प्लत्ययते; अत्रानेकवर्णव्यवधानान्न -20 च्छन्त्येके । प्रतिपूर्वस्य प्रयोग एव नास्तीत्यन्ये-निलयनम्, दुलयनम् । कथं निरयते ? दूरयते ? रुत्वस्यासिद्धत्वात् निसो दुसश्च न भवति । उपसर्गस्येति किम् ? परस्यायनं-परायनम् । अयाविति किम् ? "इंण्क् गतौ" अल्-प्रायः, परायः । अयीति इकारनिर्देशोऽयि गतावित्यस्य परिग्रहार्थः ।। १०० ।।
न्या० स०--उपसर्गस्यायो। दुलयनमिति-दुलय्यते निन्दार्थवृत्तित्वात् खलभावे-25 ऽनटि सिद्धम् ।। २. ३. १०० ।।