SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ [पा० ३. सू० ७३-७५.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३३७ अतोऽहनस्य ॥ २. ३. ७३ ॥ रेफादिमतोऽकारान्तात् पूर्वपदात् परस्याह्नशब्दसंबन्धिनो नकारस्य णो भवति । पूर्वाह्नः, अपराह्नः । अत इति किम् ? निरह्नः, दुरह नः । अह न इत्यकारान्तनिर्देशादिह न भवति-दीर्घाह नी शरत् ।। ७३ ।। न्या० स०--अतोऽह्नस्य० । दीर्घाह नी शरदिति-दीर्घाह्री दीर्घाहाः दीर्घाहा 5 रूपत्रितयम् ।। २. ३. ७३ ।। चतुस्त्रेयिनस्य वयसि ॥ २. ३. ७४ ॥ 'चतुर् त्रि' इत्येताभ्यां पूर्वपदाभ्यां परस्य हायनशब्दसंबन्धिनो नकारस्य वयसि गम्यमाने णो भवति । चतुर्हायणो वत्सः, चतुर्हायणी वडवा; त्रिहायणो वत्सः, त्रिहायणी वडवा । वयसीति किम् ? चतुर्हायना, त्रिहायना10 शाला, डीरपि वयस्येव भवति । चतुस्त्रेरिति किम् ? सहस्रहायनः पुरुषः, लक्षहायन: पक्षी।। ७४ ।। वोतरपदान्तनस्यादेरयुव-पक्वा-हनः ॥ २. ३. ७५ ॥ , पूर्वपदस्थाद् रषवर्णात् परस्योत्तरपदान्तभूतस्य तथा नागमस्य स्यादेश्च नकारस्य णो वा भवति, न चेत् स नकारो युवन्-पक्वा-ऽहनशब्दसंबन्धी15 भवति । उत्तरपदान्त-व्रीहिवापिणौ, व्रीहिवापिनौ; माषवापिणी, माषवापिनौ; व्रीहिवापिणी, व्रीहिवापिनी कुले; माषवापिणी, माषवापिनी कुले; व्रीहिवापिणः, व्रीहिवापिनः; माषवापिणः, माषवापिनः; व्रीहिवापीरिण, व्रीहिवापीनि · कुलानि; व्रीहिवापिणा, व्रीहिवापिना। न-व्रीहिवापाणि, व्रीहिवापानि कुलानि; माषवापाणि, माषवापानि कुलानि; "इव व्याप्तौ"20 इत्यस्यानटि-प्रेण्वनं, प्रेन्वनं; "हिवु प्रीणने, पिवु सेचने' इत्यनयोः शतरिप्रहिण्वन्, प्रहिन्वन्; प्रपिण्वन्, प्रपिन्वन्; हिवोरेव ह्यस्तन्यां-प्राहिण्वन् प्राहिन्वन्; बहुलवचनादनाम्नापि समासः, समासे हि पूर्वोत्तरपदव्यवहारः; पुरुषश्च वारि चेति पुरुषवारिणी इत्यत्र तु परमपि विकल्पं बाधित्वाऽन्तरङ्गत्वादेकपदाश्रितं "रघुवर्णात्" [२. ३. ६३.] इत्यादिना नित्यमेव णत्वम् 125
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy