________________
३३६ ]
बृहद्वृत्ति - लघुन्याससंवलिते
[ पा० ३. सू० ७१-७२.]
राजानः, गान्धारे राज्ञोऽपत्यानि वा " गान्धारिसाल्वेयाभ्यामञ् " [ ६. १. ११५. ] " यञञोश्या०" [ ६. १. १२६. ] इति "बहुष्वस्त्रियां" [ ६. १. १२४ ] लुप् । ननु क्षीरपाणादयः शब्दा मनुष्येषु वर्तन्ते, तत्सामानाधिकरण्यादुशीनरादयोऽपि तत्रैव तत् कथमिह देशो गम्यते इत्याह- तारस्थ्यादिति प्रयमर्थः - उशीनरादयो हि शब्दा: संज्ञात्वेन पूर्वं देशेष्वेव प्रवृत्ताः, पश्चात् तु तत्स्थानसंबन्धात् मनुष्येषु तेन मनुष्याभिधानेऽपि देशा- 5 भिधानं गम्यते । दाक्षीणां पानमिति प्रत्र कर्तरि षष्ठी ।। २. ३. ७० ।।
ग्रामा-ওग्रान्नियः ।। २. ३. ७१ ।।
ग्रामाऽग्राभ्यां परस्य नियो नकारस्य णो भवति । ग्रामणीः, अग्रणीः । ग्रामाग्रादिति किम् ? खरनी: मेषनीः ।। ७१ ।।
न्या० स० -- ग्रामाग्रा० । ननु ऋगतिकारक० इति न्यायाद् विभक्त्युत्पत्तेः 10 प्रागेव समासे निमित्त - निमित्तिनोरेकपदस्थत्वात् " रषृवर्णा ०" [ २. ३. ६३. ] इत्यनेनंव गत्वं सिद्धमेव किमनेनेति ? सत्यम् - नियमार्थं यदि नियो णत्वं स्यात् तदा ग्रामाग्रादेव, तेन खरनी- मेषनीत्यादौ पूर्वेणापि न भवति ।। २. ३. ७१ ।।
वाह्याद् वाहनस्य ॥। २. ३.७२ ।।
वोढव्यं वाह्यम्, तद्वाचिनो रेफादिमतः पूर्वपदात् परस्य वाहनशब्द - 15 संबन्धिनो नकारस्य णो भवति । उद्यतेऽनेनेति वहनम्, प्रज्ञादित्वात् स्वार्थिकोण, अतो वा निपातनादुपान्त्यदीर्घत्वम्; इक्षुवाहणम्, शरवाहणम् । वाह्यादिति किम् ? सुरवाहनम्, संबन्धमात्रमत्र विवक्षितम् ; नरवाहनः, नात्र वाह्यात् परं वाहनम्, किं तर्हि ? वाहनात् ।। ७२ ।।
न्या० स०--बाह्याद् वा० । वोढव्यं वाह्यमिति वहेरहेऽर्थे घ्यणि-वाह्य वहनाई - 20 मिक्ष्वादि, तेन यदापि वाहने वहनार्थमिक्ष्वादि वाह्य नारोपितं भवति, तदर्थं तु केवलमुपकल्पितं भूतलस्थं तदापि भवत्येव । सम्बन्धेति-स्वस्वामिभावलक्षणेऽत्र षष्ठी न तु वहनक्रियापूर्वके कर्मकरणसम्बन्धे, यदा तु सुरा अपि वाह्यत्वेन विवक्ष्यन्ते तदा त्वं भवत्येव । यदा तु नरवाहनशब्दः कुबेरवाचकस्तदा "पूर्वपदस्था०” [ २. ३. ६४. ] इति प्राप्तस्य णत्वस्य "क्षुम्नादीनाम्” [ २. ३. ९६. ] इत्यनेन निषेध:, यदा तु यौगिको 25 न संज्ञाशब्दस्तदा "पूर्वपदस्था०" [२. ३. ६४.] इति न गत्वं यथा व्यावृत्त्युदाहरणे
।। २. ३. ७२ ।।