________________
३१६ ]
बृहवृत्ति-लघुन्याससंवलिते
[पा० ३. सू० ३४.]
गौरिषक्थ, प्रतिष्णिका, नौषेचिका, दुन्दुभिषेवण' इति भीरुष्ठानादयः । समास इत्येव-भीरोः स्थानमित्यादि । बहुवचनमाकृतिगणार्थम् ।। ३३ ॥
न्या० स०--भीरुष्ठान। सव्ये तिष्ठति “सव्यात् स्थः" [उणा० ८५५.] इति डिति ऋप्रत्यये-सव्येष्ठ, “तत्पुरुषे कृति" [ ३. २. २०. ] इति सप्तम्यलुप्, असौ सव्येष्ठासारथिः । अन्ये-ऋप्रत्ययान्तस्य च्छन्दोविषयत्वादाकारान्तः क्विबन्तोऽयमिति मन्यन्ते, 5 तन्मते-'सव्येष्टाः' इति विसर्गान्तः, "तत्पुरुषे कृति" [ ३. २. २०.] इत्यलुप् । परमेष्ठिनित्यत्र गणपाठसामर्थ्यादलुप् । सुष्ठ इत्यादि-अत्र “दुःस्वप-वनिभ्यः स्थः" [ उरणा० ७३२. ] इति उप्रत्यये सुष्ठ्वादयः । शोभनं स्थानं यत्र तत् सुष्ठु दुष्ठु इति पृषोदरादित्वाद् वा, क्रियाप्रधानावेतौ सुष्ठ करोति दुष्ठु करोतीति क्रियापदसंनिधावेवेतयोः प्रयोगात् । गौरिषक्थः गौर्या इव सक्थिनी यस्य "सक्थ्यः०" [७. ३. १२६.] 10 इति ट: "ड्यापो बहुलम्०” [२. ४. ६६. ] इति ह्रस्वः। प्रतिष्णिकेत्यत्र प्रतिस्नातीति "उपसर्गादातः०" [५. १. ५६. ] इति प्रतिस्ना, यद्वा प्रतिस्नान्त्यस्यां "स्थादिभ्य:०" [५. ३. ८२.] इति के “गति-क्वन्य०" [ ३. १. ४२. ] इति सः; ततः स्वार्थे के "यादीदुत:०" [ २. ४. १०४.] इति ह्रस्वत्वे "इच्चापुसोऽनि०" [२. ४. १०७.] इतीत्वे षत्वे। प्राकृतिगणार्थमिति-अत्र नौषचनं दुन्दुभिषेचनमित्यादि ज्ञेयम्15 ॥२. ३. ३३॥
हस्वानाम्नस्ति । २. ३. ३४ ॥
नाम्नो विहिते तकारादौ प्रत्यये परे ह्रस्वान्नामिन उत्तररय सकारस्य षो भवति । तल्-त्व-तस्-त्य-तय-तरप्-तमपः प्रयोजयन्ति । सर्पिष्टा, यजुष्टा; सर्पिष्ट्वम्, यजुष्ट्वम् ; सर्पिष्टः, यजुष्ट:; निष्टयः चतुष्टयः; सर्पिष्टरम्,20 वपुष्टरम्; सर्पिष्टमम्, वपुष्टमम् । प्रसिद्धं बहिरङ्गमन्तरङ्ग इति प्लुतत्वस्यासिद्धत्वादिहापि भवति-सर्पि३ष्ट्वम्, चतु३ष्टयः, सर्पि३ष्टरम्, यजु३ष्टमम् । ह्रस्वादिति किम् ? गीस्त्वम्, धूस्त्वम्, गीस्तरा, धूस्तमा, उच्चस्तराम्, उच्चस्तमाम् नामिन इत्येव-तेजस्ता, तेजस्त्वम्, पयस्ता, पयस्त्वम्, तेजस्तरम्, तेजस्तमम् । नाम्न इति किम् ? . भिन्द्य स्तराम् ।25 विहितविशेषणं किम् ? सपिस्तत्र, सर्पिषस्तरणं तमनं वा-सपिस्तरः, सपिस्तमः । तीति किम् ? सर्पिस्साद् भवति ॥ ३४ ॥
न्या० स०-ह्रस्वान्ना० । सर्पिष्ट इत्यत्र "अहीयरुह०" [७. २. ८८.] इति तस् ।