________________
[पा० ३. सू० ३१-३३.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ ३१५
अम्यते इति "शम्यमेरिणद्वा" [ उणा० ३१८.] अम्बोऽपह्नवकर्ता, तस्यायं कार्यभूतः अणि-प्राम्बोऽपह्नवरूपो धर्मः, तत्र तिष्ठतीत्यत्र सर्वत्र "स्था-पा-स्ना-त्रः कः" [ ५. १. १४२. ] अपतिष्ठतीत्यत्र तु "उपसर्गादातो ड:" [५. १. ५६.] इति ड: प्रत्ययःअपष्ठः। अधिकरणे तु गोष्ठमित्यत्र “स्थादिभ्यः कः" [५. ३. ८२.] शोडक् शमूच इत्यनयो: "केशी-शमि०" [ उणा० ७४६. ] इति को-शेकुरुद्भिविशेषः, शङ कुस्तु । "शङ कुः पत्र-शिराजाले सङ्ख्या-कीलकशम्भुषु।" सवनीयः सव्यः “य एच्चातः" [५. १. २८. ] मशः सौत्रस्य “पदि-पठि०" [उणा० ६०७.] इति इप्रत्यये मञ्जिः । "पूङ पवने" इत्यस्मात् "पुवः पुन च" [उणा० १२८.] इति जे-पुखः, स इवाचरति "कर्तु: क्विप्०" [ ३. ४. २५. ] तस्य लुप् । पुखतीति "स्वरेभ्य इ:" [ १. ३. ३०.] पुखिः ।। २. ३. ३० ॥
10
निस्सोः सेध-सन्धि -साम्नाम् ॥ २. ३. ३१ ।।
निरादिभ्यः परेषां सेधादीनां सस्य समासे षो भवति, वचनभेदाद् यथासंख्याभावः । निःषेधः, दुःषेधः, सुषेधः; निःषन्धिः, दुःषन्धिः, सुषन्धिः; निःषाम, दुःषाम, सुषाम ।। ३१ ।।
न्या० स०-निद्स्सोः । अत्र रेफस्य सकारेऽनेन शिडन्तरत्वात् परसकारस्य 15 षत्वे पूर्वसकारस्य च “सस्य श-षौ" [१. ३. ६१.] इति षत्वे-निष्षेधादयः ।।२.३.३१।।
प्रष्ठोऽग्रगे ॥ २. ३. ३२॥
प्रात् परस्य स्थसकारस्य षो निपात्यते, अग्रगे-अग्रगामिण्यभिधेये । प्रष्ठोऽग्रगामी, प्रस्थोऽन्यः ॥ ३२ ।।
न्या० स०--प्रष्ठोऽग्र० । प्रतिष्ठते-प्रष्ठः, “उपसर्गादातो ड:०" [ ५. १. ५६. ]20 न तु "स्था-पा०" [५. १. १४२. ] इति कः, तस्य नामपूर्वाद्धातोविहितत्वात् नामग्रहणे च प्रायेणोपसर्गस्य न ग्रहणमित्यस्यार्थस्य ज्ञापयिष्यमाणत्वात् ।। २. ३. ३२ ।।
भीरुष्ठानादयः॥ २. ३. ३३ ।।
भीरुष्ठानादयः शब्दाः समासे कृतषत्वाः साधवो भवन्ति । भीरूणां स्थानं-भीरुष्ठानम्, अङ्गुलीनां सङ्गः-अङ्गुलिषङ्गः; अङ्गुलिषङ्गा यवागूः 125 'भीरुष्ठान, अङ्गुलिषङ्ग, सव्येष्ठ, परमेष्ठिन्, सुष्ठु, दुष्ठु, अपष्ठ, वनिष्ठु,