________________
३१४ ]
बृहवृत्ति-लघुन्याससंवलिते
[पा० ३. सू० २६-३०.]
न्या० स०-वि-कु-शमि०। नाम्नीति निवृत्तम् विष्ठलादिशब्दात् संज्ञाया अप्रतीते: उत्तरत्र गोत्रग्रहणाद् वा। स्थलमिति-तिष्ठत्यत्र सिकतादिकमिति "स्थो वा" [ उरणा० ४७३.] अल:-स्थलः। शमिष्ठलमिति-शमिशब्दः शमशब्दो वा, शमेः "इतोऽक्त्य०" | २. ४. ३२. ] इति ङीः । अत्र शमाद् गौरादित्वाद् ङी:। वि-कुशब्दावव्यया-ऽनव्ययौ विशेषानुपादानाद् द्वावपि गृह्यते, तत्राव्ययपक्षे “गतिक्वन्य०" [ ३. १. 5 ४२. ] इति "प्रात्यव०" [ ३. १. ४७. ] इति च तत्पुरुषोऽन्यत्र षष्ठीसमास इत्याहविगतं वीनां वेति। दीर्घान्न भवतीति-बाहुलकान्न ह्रस्व इत्यर्थः ।। २. ३. २८ ।।
कपेगोत्र ॥२. ३. २६ ॥
कपिशब्दात् परस्य स्थलशब्दसंबन्धिन: सकारस्य समासे षो भवति, गोत्रेऽभिधेये । कपिष्ठलो, नाम गोत्रस्य प्रवर्तयिता, यस्य कापिष्ठलिः पुत्रः ।10 गोत्रमिह लौकिकं गृह्यते, लोके चाद्यपुरुषा येऽपत्यसंततेः प्रवर्तयितारो यन्नाम्नोऽपत्यसंततिर्व्यपदिश्यते तेऽभिधीयन्ते । गोत्र इति किम् ? कपीनां स्थलं कपिस्थलम् ॥ २६ ॥
न्या० स०-कपेः। कपिभिरावृतं स्थलमस्य तस्यापत्यं “बाह वादिभ्यो गोत्रे" [६. १. ३२. ] इञ् प्रत्ययः । गोत्रमिहेत्यादि-न तु स्वापत्यसन्तानस्येत्यादि-लक्षणं 15 शास्त्रीयम् ।। २.३.२६ ।।
गो-म्बा-S9म्ब-सव्या-अप-दिव-नि-भूम्यग्नि-शेकु-शडकुक्वङगु-मजि-पुञ्जि-बहिःपरमे-दिवेः स्थस्य ।। २. ३. ३० ॥
'गो अम्बा आम्ब सव्य अप द्वि त्रि भूमि अग्नि शेकु शकु कु अगु मञ्जि पुञ्जि बहिस् परमे दिवि' इत्येतेभ्यः परस्य स्थशब्दसंबन्धिनः सकारस्य20 समासे षो भवति । गोष्ठम्, अम्बाष्ठः, “ड्यापो बहुलं नाम्नि" [२. ४. ६६.] इति हृस्वत्वे अम्बष्ठः, श्लिष्टनिर्देशादुभाभ्यामपि भवति-प्राम्बष्ठः; सव्यष्ठः, अपष्ठः, द्विष्ठः, त्रिष्ठः, भूमिष्ठः, अग्निष्ठः, शेकुष्ठः, शकुष्ठः, कुष्ठः, अङ्गुष्ठः, मञ्जिष्ठः, पुञ्जिष्ठः, बहिष्ठः, परमेष्ठः, दिविष्ठः, अत एव निपातनात् सप्तम्या अलुप्, “तत्पुरुषे कृति" [३. २. २०.] इति तु "नेम्-25 सिद्धस्थे” [३. २. २६.] इति प्रतिषेधात् नोपतिष्ठते ।। ३० ।।
न्या० स०-गोऽम्बाम्ब० । पाम्बष्ठः अम्ब्यते अपह्नवकारितया घत्रि, अथवा