________________
[पा० ३. सू० ३५-३६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३१७
अन्तरङ्ग इति-अयमर्थः-परत्वाद् पूर्वमपि लुप्ते आमन्त्र्याद्याश्रयत्वेन बहिरङ्गत्वं लुपस्य । सपिस्तत्रेति-नन सपिस्तत्रेत्यादौ "वेसुसोऽपेक्षायाम्" [२. ३. ११.] इत्यस्य कखपफीति व्यावृत्त्यैव षत्वव्यावृत्तेः सिद्धत्वात् किमनेन ? नवम्-अपेक्षायां प्राप्तिरनेन तु अनपेक्षायामपि शङ्कयते, यथा-पश्यात्र सपिस्तत्र यजुर्वर्तत इति ।। २. ३. ३४ ।।
निसस्तपेनासेवायाम् ॥२. ३. ३५ ॥
निसः संबन्धिनः सकारस्य तकारादौ तपतौ परे षो भवति, अनासेवायामर्थे, पुनः पुनः करणमासेवा। निष्टपति सुवर्णम्, सकृदग्नि स्पर्शयतीत्यर्थः । अनासेवायामिति किम् ? निस्तपति सुवर्णं सुवर्णकारः, पुनः पुनस्तपतीत्यर्थः । 'निष्टप्तं रक्षो निष्टप्ता अरातयः' इत्यत्र तु सदप्यासेवनं न विवक्ष्यते। तीत्येव-निरतपत् । शनिर्देशो भौवादिकपरिग्रहार्थः, यङ्लुब्-10 निवृत्त्यर्थश्च, निस्तातप्ति, निस्तातपीति ।
*"तिवा शवाऽनुबन्धेन निर्दिष्टं यद् गणेन च ।
एकस्वरनिमित्तं च पञ्चैतानि न यङ्लुपि" ॥ * ॥ ३५ ।। न्या० स०--निसस्तपे० । निरतपदिति-अत्र पूर्व कृतमपि षत्वं परस्मिन्नडागमे "णषमसत्०" [ २. १. ६०. ] इत्यनेन असिद्धम् । निस्तातपीति-अत्र भृशं निष्टपतीति 15 वाक्यं कार्यम्, आभीक्षण्ये तु अनासेवायामिति व्यावृत्त्यैव निरस्तत्वाद् । अन्त्यत्वादप्राप्ते वचनम् ।। २. ३. ३५ ।।
घस्-वसः ॥ २. ३. ३६ ॥
नाम्यन्तस्थाकवर्गात् परस्य घसेर्वसेश्च धातोः संबन्धिनः सकारस्य षो भवति । जक्षतुः, जक्षुः, जक्षिवान्; ऊषतुः, ऊषुः, उषितः, उषितवान् ।20 घसिरिह प्रकृत्यन्तरम्, आदेशस्य कृतत्वेनैव सिद्धत्वात्, अकृतसकारार्थं वचनम् । शिड्नान्तरेऽपि-बहूंषि, बहुषु वसन्तीति नगराणि । नाम्यन्तस्थाकवर्गादित्येव-जघास, वसति ।। ३६ ।।
न्या० स०-घस्वसः। अत्र वसो भौवादिकस्य ग्रहः, "वसिक आच्छादने" इत्यस्य तु य्वृदभावेन नामिनः सस्यासंभवात्, प्रदाद्यनदाद्यो:* इति न्यायाद् वा 125 बहूंषीति-वसन्तीति क्विपि य्वृति उषः, बहवः उषो वास्तव्या येषु तानि, अत्र नागमरूपे