SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ [पा० २. सू० ११०.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २६१ त्वात्, सत्यमेतत्-बुद्धया हि केनचिद् धर्मेण कल्पितेन माथुराः पाटलिपुत्रकाश्च समुदायभावमापद्यन्ने इति सिध्यति निर्धारणमित्यदोषः ।। २.२.१०६ ।। क्रियामध्ये वकाले पञ्चमी च ॥ २. २. ११० ॥ क्रिययोर्मध्ये योऽध्वा कालश्च तस्मिन् वर्तमानाद् गौणानाम्नः पञ्चमी, चकारात् सप्तमी च भवति । इहस्थोऽयमिष्वासः क्रोशाल्लक्ष्यं विध्यति, 5 क्रोशे वा लक्ष्यं विध्यति ; इह धानुष्काऽवस्थानमिषुमोक्षो वैका क्रिया, लक्ष्यव्यधश्च द्वितीया, तन्मध्ये क्रोशोऽध्वा; अद्य भुक्त्वा मुनिद्वर्य हात् भोक्ता, द्वयहे वा भोक्ता; अत्र द्वयोर्भुक्तिक्रिययोर्मध्ये द्वयहः कालः । ननु च 'क्रोशे स्थितं लक्ष्यं विध्यति' द्वयहे पूर्णे भुङ्क्ते, इत्यधिकरण एव सप्तमी; 'क्रोशात् निःसृत्य स्थितं लक्ष्यं विध्यति, द्वयहमतिक्रम्याऽनु भुङ्क्ते' इत्यपादाने10 “गम्ययपः कर्माऽऽधारे" [२. २. ७४.] इति पञ्चमी सिद्धेव, सत्यम्-यदा त्वस्यैव क्रियाकारकसंबन्धस्य फलभूता शेषसंबन्धलक्षणोत्तरावस्था विवक्ष्यते, यथा-द्विरह नो भुङ्क्ते, योजनस्य शृणोतीति, तदाऽपि क्रियामध्ये षष्ठी मा भूदिति वचनम् ।। ११० ।। . न्या० स०--क्रियामध्ये०। इहस्थोऽयमिति-नन्विष्वास इति धनुरुच्यते, यथा-15 अङ्गराजो महेष्वास इति, महान् इष्वासो यस्येति व्युत्पत्तेः, धनुश्च व्यधने करणं, कर्ता तु मैत्रादिः, तत् कथमुक्तम्-इष्वासो विध्यतीति, उच्यते-इष्वास इति क्रियाशब्दोऽयमिति यः कश्चिदिषुनस्यति-क्षिपति स मैत्रादिरप्युच्यते; यद्वा रूढिशब्दत्वेऽपि करणस्य स्वातन्त्र्यविवक्षायामिष्वासो विध्यतीति उपपद्यत एव, यथा स्थालीकरणस्य कर्तृ विवक्षायां स्थाली पचतीत्युच्यते । अद्य भुक्त्वेति-नन्विहस्थोऽयमिष्वास इत्यादि क्रियाभेदाद् युक्तमिदमुदा-20 हरण , इदं त्वयुक्तमद्य 'भुक्त्वा मुनिद्वर्यहाद् भोक्ते ति भुजिक्रियाया एकत्वात्, सत्यम् जक्रियाया एकस्या अपि कालभेदाद भेदस्य सिद्धत्वादाधारोऽपि तस्या भिद्यते । अधिकरण एव सप्तमीति-क्रियामध्यव्यवस्थितस्याध्वनोऽधिकरणत्वात् सप्तमी सिद्धा, क्रोशैकदेशस्याधिकरणत्वात् क्रोशेऽप्यधिकरणत्वस्य वक्त शक्यत्वात् ; एवं कालादपि द्वयहे पूर्णे इत्यत्र पूर्णद्वयहस्य यदुपश्लिष्टमहस्तत्र भोक्त त्यर्थावसायादौपश्लेषिकी सप्तमी 25 सिद्धा, पञ्चमी त्वध्वनोऽपादानत्वात् क्रोशानिर्गच्छद्भिः शरैर्लक्ष्यं विध्यतीत्यर्थावगमात्; कालात् तु “गम्ययपः०" [ २. २. ७४. ] इति द्वयहमतिक्रम्य भोक्त त्यर्थप्रतीते:, किमर्थोऽयं योग इत्याक्षेपार्थः; यथा च शरनिर्गमनस्य धनुरपादानं तथा कोशोऽपि तस्मादपि हि ते निर्गच्छन्ति, यद्वा क्रोशस्थं धनुरपि क्रोशेनाभिधीयते उपचारात्, मञ्चाः क्रोशन्तीतिवत् । अस्यैवेति-अपादानस्याधारस्य वेत्यर्थः । फलभूतेति-क्रियाकारकसंबन्धो30
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy