________________
२६० ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० २. सू० १०६.]
सप्तमी चाऽविभागे निर्धारणे ॥ २. २. १०६ ॥
जाति-गुण-क्रियादिभिः समुदायादेकदेशस्य बुद्धया पृथक्करणं निर्धारणम्, तस्मिन् गम्यमाने गौणान्नाम्न: षष्ठी सप्तमी च भवति; अविभागे-निर्धार्यमाणस्यैकदेशस्य समुदायेन सह कथञ्चिदैक्ये शब्दाद् गम्यमाने। क्षत्रियः पुरुषाणां पुरुषेषु वा शूरतमः, शालयः शूकधान्यानां 5 शूकधान्येषु पथ्यतमाः, कृष्णा गवां गोषु वा संपन्नक्षीरतमा, धावन्तो गच्छतां गच्छत्सु वा शोघ्रतमाः, युधिष्ठिरः श्रेष्ठतमः कुरूणां कुरुषु वा। अविभाग. इति किम् ? माथुराः पाटलिपुत्रकेभ्य आढयतराः, पञ्चालाः कुरुभ्यः संपन्नतराः, मैत्रश्च त्रात् पटुः, अयमस्मादधिकः; अत्र हि शब्दात् भेद एव प्रतीयते, न तु कथञ्चिदैक्यमिति न भवति । पञ्चमीबाधनार्थं वचनम्,10 अन्ये तु पञ्चमीमपीच्छन्ति-गोभ्यः कृष्णा संपन्नक्षीरतमा ।। १०६ ।।
न्या० स०--सप्तमी० । क्षतात् त्रायते "स्था-पा०" [ ५. १. १४२. ] इति कः, पृषोदरादित्वादलोपे क्षत्र, तस्यापत्य "क्षत्रादियः" [६. १. ६३.], क्षत्रियः पुरुषाणामित्यादिषु क्षत्रियत्व-शालि वजात्या कृष्णत्वगुणेन धावनक्रियया, आदिशब्दा युधिष्ठिरप्रभृतिसंज्ञया च निर्धारणम् । ननु निर्धार्यमारणस्यावयवस्य समुदायाभ्यन्तरत्वात् ततश्च 15. समुदायस्याऽधिकरणविवक्ष यां वक्षे शाखेतिवत् स म्या: सिद्धत्वात् सबन्धविवक्षायां त्ववयवस्य वक्षस्य शाखेतिवत् षष्ठया अपि सिद्धत्वात् किमनेनेति, नैवम्-विभागे प्रतिषेधार्थत्वादस्य सर्वत्रैव निर्धारणस्य विभागरूपत्वेनाऽविभागपूर्वकत्वादविभागग्रहणस्य निरर्थकत्वादविभागग्रहरणसामर्थ्यादवधारणमाश्रीयते-अविभागो यत्र शब्दत एव प्रतोयते तत्र निर्धारणे सप्तमी-षष्ठयाविति, यथा क्षत्रियः पुरुषारणां पुरुषेष्वित्यत्र निर्धार्यमारणस्य.0 क्षत्रियस्य पुरुषत्वेनाऽविभागप्रतोतिः; तेन माथुरा: पाटलिपुत्र केभ्य पाढयतरा इत्यत्र न भवति, नत्र केनचित् प्रकारेण माथुराणां पाटलिपुत्रकेष्व विभाग: शब्दतः प्रतीयते, नहि पाटलिपुत्रका माथुरा नाप्याढयतरा इति वाक्याद् भेद एव प्रतीयते इत्याह-शब्दाद् गम्यमाने इति । गवां कृष्णेत्यादौ विभज्यमाना गौगों-वेन समूदायादविभक्ता, काष्ण्यन तु विभक्ता, तस्माद् विभज्यमानस्यैकदेशस्य विभागाश्रयस्य च समूदायस्य यत्र विभागा-25 विभागौ स एवानयोविषयः, यत्र तु तयोविभाग एव, न कथञ्चिदैक्यं तत्र पञ्चम्येव भवति, अत एवाह-पञ्चमोबाधनार्थमिति-अयमर्थ:-निर्धारणस्य विभागरूपत्वाद् यस्य हि यतो विभागस्तस्य तदपेक्षयाऽवधिरूपत्वाद अपादानत्वात् “पञ्चम्यपादाने" [ २. २. ६६. ] इति पञ्चम्या प्रप्तायां यत्र विभागोऽपि तत्र तदपवादो योग इत्यर्थः, यद्येवं सर्वथा समूदायभावानापन्न निर्धारणमेव न यूज्यते, समूदायाद्धि एकदेशस्य पृथक्करणं निर्धारणमित्युक्त-30