________________
२६२ ]
बृहद्वृत्तिलघुन्याससंवलिते
[पा० २. सू० १११-११३.]
हि कटं करोतीत्यादावप्यस्ति । तद्वयवच्छित्त्यै शेषसंबन्धलक्षणा फलभूता कार्यभूतोत्तरावस्था इत्यक्तम। षष्ठो मा मदिति वचनमिति-अयमर्थ:-यदा भोजन-श्रवणादौ कालाऽध्वनो: क्रियाकारकजन्यं शेषसंबन्धित्वमेव केवलं विवक्ष्यते न त्वपादानाधिकरणत्वे तदा ताभ्यां षष्ठयेव स्यादिति सूत्रारम्भः। किञ्च यदा द्वयह-क्रोशशब्दौ द्वयहक्रोशविषयावेव न तदेकदेशविषयौ तदा नापायो नाप्याधारतेति षष्ठी प्राप्नोति, क्रोशं 5 वाहयित्वा विध्यति, द्वयहं वाहयित्वा भोक्त ति वा प्रतोतेद्वितीया प्राप्नोति तदबाधनार्थोऽयं योग आरभ्यते, वृत्तौ तु षष्ठी मा भूदिति षष्ठीग्रहणमुपलक्षणार्थम्, तेन द्वितीयाऽपि मा भूदित्यर्थः सिद्धो भवति ।। २. २. ११० ।।
अधिकेन भूयसस्ते ॥ २. २. १११ ॥
अधिरूढ इत्यर्थेऽधिकशब्दो निपात्यते, अधिरूढ इति कर्तरि कर्मणि च10 क्तो भवति, तत्र यदा कर्तरि तदाऽधिक इत्यनेनाऽल्पीयानुच्यते, यदा तु कर्मणि तदा भूयान्, तत्र सामर्थ्यादल्पीयोवाचिनाऽधिकशब्देन युक्ताद् भूयसोभूयोवाचिनो गौणान्नाम्नस्ते-सप्तमी-पञ्चम्यौ भवतः। अधिको द्रोणः खार्याम्, अधिको द्रोणः खार्याः ।। १११ ।।
न्या० स०--अधिकेन। भूयस इत्युपादानात् अधिकशब्देनाल्पीयानेवोच्यत 15 इत्याह-सामर्थ्यादिति । अत्राधिकाधिकिसंबन्धस्य विद्यमानत्वात् खारीशब्दात् ' शेषे" [ २. २. ८१. ] इत्यनेन षष्ठी प्राप्नोति, तथाऽधिकशब्दस्य कर्तृ साधनाध्यारूढार्थत्वात् "कर्मणि" [ २. २. ४०.] इति द्वितोया च, अतस्तयोर्बाधिके सप्तमी-पञ्चम्यावनेन विधीयते ।। २. २. १११ ।।
तृतीयाल्पीयसः ॥ २. २. ११२ ॥
अधिकशब्देन सामर्थ्याद् भूयोवाचिना युक्तादल्पीयोवाचकाद् गौणानाम्नस्तृतीया भवति । अधिका खारी द्रोणेन ।। ११२ ।
न्या० स०-तृतीया०। सामर्थ्यादिति-अल्पीयस इत्युपादानात् कर्मसाधनो भूयोऽर्थोऽधिकशब्दः प्रतिपत्तव्य इति । कर्तरि तृतीया सिद्धैव षष्ठीबाधनार्थं तु वचनम् ।। २.२.११२ ।।
पृथग-नाना पञ्चमी च ॥ २. २. ११३ ॥
पृथग्-नानाशब्दाभ्यां युक्ताद् गौणानाम्नः पञ्चमी तृतीया च भवति । पृथग मैत्रात्, पृथग मैत्रेण; नाना चैत्रात्, नाना चैत्रेण । यदा पृथग्-नाना
20
25