SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ [पा० २. सू० १०१.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २८५ गौणान्नाम्नः सप्तमी भवति । हेतुतृतीयाऽपवादः । । "चर्मणि द्वीपिनं हन्ति, दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरी हन्ति, सीम्नि पुष्पलको हतः" ।। १ ।। तद्यक्त इति किम ? वेतनेन धान्यं लुनाति, नाऽत्र वेतनं धान्येन संयुक्तम्, धनेन वसति । हेताविति किम् ? देवस्य पादौ स्पृशति ।। १०० ॥ 5 न्या० स०-तद्युक्तेः । तेन व्याप्येन युज्यते स्म । तथात्र नानादेशजविनेयानुग्रहार्थं युक्त-हेतुनिमित्तं कारणमिति बहुतरपर्यायकथनम्,हेतुशब्दोपादानात् त्विह विशिष्ट मेव निमित्तमभिप्रेतं, न निमित्तमात्रम्, अन्यथा “तद्युक्त निमित्ते" इति कृते दात्रेण धान्यं लुनातीति निमित्तमात्रवाचिनो दात्रादपि स्यात् सप्तमो, न चोपपदविभक्त : कारकविभक्तिबलोयसी इति न भविष्यतोति वाच्यम्, यतो यथा कर्तृ-करणयोस्तृतीया विहितेति 10 तृतीयायाः कारकविभक्तित्वं तथाऽत्र सप्तम्या अपि 'व्याप्येन युक्तः' इति कारकश्रुत्या कारकविभक्तित्वम् ; सा ह्य पपदविक्तियत्र कारकगन्धोऽपि नास्ति, यथा शक्तार्थवषडादिभिर्योगे चतुर्थीति, तस्माद्धतशब्दाभिधेयं विशिष्टमेव निमित्तं, यदर्थः क्रियारम्भस्तदेवात्र निमित्तमभिप्रेतं न निमित्तमात्र, तेन दाबान्न सप्तमी, नहि दावार्था लवनक्रियेति । द्वीपिनमिति-द्विधा गता आपो यत्र "ऋक्तः०' [७. ३. ७६.] “द्वयन्तरनवर्ण०"15 [ ३. २. १०६. ] इतोयादेशे द्वीपमस्यास्ति इन्, अयं नन्तः पुल्लिङ्गः, यदा तु द्वीपमाचष्टे णिजि "विपिन०" [ उरणा० २८४. ] इति निपात्यते तदाऽकारान्त: "अभिधानद्वीपिनौ” इति प्रतिपदपाठात् पुक्लीबः । कुखौ दन्तावस्य स्तो “मध्वादिभ्यो रः" [ ७. २. २६. ] पुष्पं लातोति डे ज्ञाताद्यर्थविवक्षायां के च-पुष्पलकः । देवस्य पादावितिअस्त्यत्र पादलक्षणेन कर्मणा देवस्य योगो हेतुत्वं तु नास्तीति ।। २. २. १०० ।। 20 अप्रत्यादावसाधुना ॥ २. २. १०१॥ असाधुशब्देन युक्ताद् गौरणान्नाम्नोऽप्रत्यादौ-प्रत्यादिप्रयोगाऽभावे सप्तमी भवति । असाधुमैत्रो मातरि । अप्रत्यादाविति किम् ? असाधुमैत्रो मातरं प्रति, मातरं परि, मातरमनु, मातरमभि ।। १०१ ।। न्या० स०--अप्रत्यादा० । इहादिशब्दस्य व्यवस्थावाचित्वात् प्रति परि अनु?5 अभि इत्येत एवाप्रत्यादावित्यनेन ग्राह्याः । ननु साधुशब्देन सदाचार उच्यते, आचरणं च क्रियाविषयमिति मातृशब्देन तत्स्था परिचर्यादिक्रिया उच्यते इति मातृपरिचरणादिक्रियाणां सम्यगाचरिता मातरि साधुरित्युच्यते, तद्व परोत्येनासाधुर्मातरीति, ततश्चाsसाधुमैत्रो मातरीति मातृविषयस्य साधुत्वस्य निषेधात् प्रथम मात्रा साधोर्योगादन्त
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy