________________
२८६ ]
[ पा० २. सू० १०२-१०४.]
रङ्गत्वादुत्तरेणैव सिद्धा सपमो, किमनेनेति नेत्रम् - पदान्तरसंबन्धादेकपदवतित्वेन नत्र्संबन्धस्यान्तरङ्गत्वादसमर्थनञ्समासस्य च नियतविषयत्वादर्थान्तराभिधायिना नन्समासेनव मातुः संबन्धो युक्तोऽब्राह्मणमानयेत्यादिवदिति "साधुना " [ २.२.१०२. इत्युत्तरेण न सिध्यतीति वचनम् । नन्वभियोगे "लक्षणवीप्स्य०" [ २. २. ३६. ] इत्यनेन प्रत्यादियोगे तु " भागिनि० " [ २. २. ३७ ] इत्यनेन च द्वितीयाया विशेष - 5 विधानात् सप्तमी न भविष्यति, किमप्रत्यादावित्यनेन, सत्यम् - असाधुशब्दाभावेऽपि द्वितीया चरितार्था इति प्रत्यादिप्रयोगे सप्तमी स्यात् ।। २.२. १०१ ।। .
बृहद्दवृत्ति-लवुन्याससंवलिते
साधुना ॥ २.२. १०२ ॥
साधुशब्देन युक्ताद् गौरणान्नाम्नोऽप्रत्यादौ सप्तमी भवति । साधुमैत्रो राजनि, साधुर्मातरि । अप्रत्यादावित्येव साधुमैत्रो राजानं प्रति, राजानं परि, 10 राजानमनु, राजानमभि । उत्तरत्रार्चायां विधानात् अनयां तु व्यावृत्तेस्तत्त्वाख्याने विधिरयम् । कथं तर्हि साधुर्भृत्यो राज्ञ इति ? भृत्यापेक्षा त्र षष्ठी न साध्वपेक्षा, साध्वपेक्षायां तु सप्तम्येव भवति ।। १०२ ।।
न्या० स० - साधुना । उत्तरत्रेति पूर्वे त्वर्चाग्रहणमुत्तरत्र निपुणविशेषणार्थमेव प्रतियन्तः सर्वत्र साधुशब्दयोगे सप्तमीं प्रतियन्ति यदुत्पल :- एवं चार्चाग्रहणं निपुण - 15 विशेषरणार्थं संपद्यते इति ।। २. २. १०२ ।।
निपुणेन चार्चायाम् ॥ २. २. १०३ ॥
निपुणशब्देन साधुशब्देन च युक्ताद् गौणान्नाम्नोऽप्रत्यादौ सप्तमी भवति, अर्चायां गम्यमानायाम्, षष्ठ्यपवादः । मातरि निपुणः, पितरि साधुः । अर्चायामिति किम् ? निपुणो मैत्रो मातुः, साधुमैत्रः पितुः, मातैवैनं 20 निपुणं मन्यते, पितैव साधुमित्यनर्चायां न भवति । अप्रत्यादावित्येव - निपुणो मैत्रो मातरं प्रति मातरं परि, मातरमनु, मातरमभि ।। १०३ ।।
न्या० स० -- निपुणेन० ।
अर्चायामिति - "अचिरण अर्चने" " भीषिभूषि०' [५. ३. १०६.] इत्यञ् बहुवचनात् । मातरि निपुणः अत्र मातरि सुष्ठु वर्तत इति मैत्रादेः प्रशंसा गम्यत इति ।। २. २. १०३ ।।
25
स्वेशेऽधिना ॥ २. २. १०४ ॥
स्वे - ईशितव्ये, ईशे च स्वामिनि वर्तमानादधिना युक्ताद् गौरणान्नाम्नः