________________
२७६ ]
बृहद्वृत्तिलधुन्याससंवलिते
[पा० २. सू० ८४.]
ऽपवादः । अपां स्रष्टा, पुरां भेत्ता, वर्षशतस्य पूरकः, पुत्रपौत्राणां दर्शकः, यवानां लावकः, अोदनस्य भोजकः, विश्वस्य ज्ञाता, तीर्थस्य कर्ता, उदकस्य पिबः, ग्रामस्य गमनम्, गवां दोहः । कर्मणीति किम् ? शस्त्रेण भेत्ता । क्रियाविशेषणस्थापि कर्मत्वाभावान्न भवति-साधु पक्ता, स्तोकं पक्ता । कृत इति किम् ? कटं करोति, कृतपूर्वी कटम्, भुक्तपूर्वी प्रोदनम् ; त्यादि- 5 तद्धितयोः कर्मणि मा भूत् । कथमर्थस्य त्यागी ?, सुखस्य भोगी ?, विषयाणां जयी ?, वीराणां प्रसविनीति ? अत्र ताच्छीलिकयोधिनरिणनोः कर्मेति भवति ।। ८३ ।।
पोत्रा वा इति विधेयपुत्र.” [ ६. १. ३९.10
३. १. १४४.] इति समान
न्या० स०--कर्मणि कृतः। द्वितीयापवाद इति-“कर्मणि" [ २. २. ४०. ] इत्यनेन प्राप्तायाः। पुत्रपौत्राणामिति-पुत्रस्यापत्यमनन्तरं "पुनर्भू पुत्र०" [६. १. ३६.] 10 इत्यञ्, पुत्रस्य पौत्राः पुत्रसहिता: पौत्रा वा इति विधेयम्, द्वन्द्वे तु “गवाश्वादिः" [३. १. १४४.] इति समाहृतिः स्यात् । पिबतीति पिबः "घ्राध्मा०" [ ५. १. ५८. ] इति शः। कृत इति किमिति-अयमर्थः-ननु कर्म कारकं, तच्च क्रियामन्तरेण न सभवति, यतः क्रियायाः कारक कारकं भवति, क्रिया च प्रत्ययसहितं धातुमाक्षिपति, धातोश्च द्वये एव प्रत्यया विधीयन्ते-त्यादयः कृतश्च, तत्र "तं पचति०" [ ६. ४. १६१. ]15 इत्यादिज्ञापकात् त्यादिप्रयोगे द्वितीयाविधानात् कृत्प्रयोग एव षष्ठी भविष्यति, कि कृद्ग्रहणेनेति, नैवम्-कृद्ग्रहणमन्तरेण तद्धितप्रयोगेऽपि यत् कर्म तत्रापि षष्ठी स्यात् तनिषेधार्थं कृत्ग्रहणम् । कृतपूर्वी कटमिति-वर्तते, कः कर्ता ? कृतपूर्वी, पूर्व कृतवानित्यर्थः, कं कृतपूर्वी ? कटम्, तत्र यथा चित्रगुरित्यादौ बहुव्रीहिणा स्वामिसामान्येऽभिहिते विशेषाभिधानाय चैत्रादिः प्रयुज्यते तथाऽत्रापि सामान्यकर्मण्यभिहिते विशिष्ट-20 कर्माभिधानाय कटादेः क्तनाऽनभिहितस्य द्वितीयान्तस्य प्रयोगः, सामान्येन व्यवहारासंभवाद् विशेषणावश्यं निर्वाहः कार्यः । कमिति-त्यागोऽस्यास्ति इति इनि तद्धितप्रत्ययेऽर्थस्येत्यादि कर्मणि षष्ठी न प्राप्नोतीत्याशङ्कार्थः। “यूज-भुज." [५.२. ५०.] इति घिनण । “जीण -दृक्षि०" [ ५. २. ७२. ] इति "प्रात्सूजोरिन्" [५. २. ७१.] इति यथाक्रम त्यागीत्यादिषु प्रत्ययाः ।। २. २. ८३ ।।
25.
दिद्वषो वातुशः ।। २. २. ८४ ॥
अतृश्प्रत्ययान्तस्य द्विषः कर्मणि गौणान्नाम्न: षष्ठी वा भवति । चौरस्य द्विषन्, चौरं द्विषन् ; “तृन्नु०" [२. २. ६०.] आदिसूत्रेण प्रतिषेधे प्राप्ते विकल्पोऽयम् ।। ८४ ॥