________________
[पा० २. सू० ८५-८६.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ २७७
न्या० स०-द्विषो वाऽतृशः। विकल्पोऽयमिति-अन्ये तु संबन्धविवक्षायामेवेयं षष्ठीति प्रतियन्तः सूत्रं नारभन्ते, एवं-"वा क्लीबे" [२. २. ६२.] इत्यपि ।। २. २. ८४ ।।
वैका द्वयोः ॥ २. २. ८५ ॥
द्विकर्मकेषु धातुषु द्वयोः कर्मणोरेकत्रैकतरस्मिन् वा षष्ठी भवति, अन्यत्र पूर्वेण नित्यमेव । अजाया नेता स घ्नम्, अजाया नेता स्रघ्नस्य, 5 अथवा-अजां नेता स्रघ्नस्य, अजाया नेता स्र घ्नस्य; पयसो दोहको गाम्, पयसो दोहको गोः; यदि वा गोर्दोहकः पयः, गोर्दोहकः पयसः । अन्ये तु नीवह्यादीनां द्विकर्मकाणां गौणे कर्मणि, दुहादीनां तु प्रधाने विकल्पमिच्छन्ति; उभयत्रापि नित्यमेवेत्यन्ये ।। ८५ ।।
न्या० स०-वैकत्र। द्वयोः कर्मणोरिति-ननु कृत इत्यस्यैव षष्ठ्यन्तस्य 10 द्वयोरिति कस्मान्न विशेषणम् ?, तत्रापि हि द्वयोः कृदन्तयोरेकं यत् कर्म तत्र षष्ठी वा भवतीत्ययं सूत्रार्थो घटते, तथा च अपां स्रष्टा भेत्ता च मैत्र इत्यादावेव विकल्प: स्यादिति, नैवम्-एवं सति "कर्मणि कृतो द्वयोश्च वा" इत्येकमेव योगं कुयोत्, एव च सति एकस्य कृतः कर्मणि नित्यं षष्ठी भवति, द्वयोस्तु कृदन्तयोर्वा भवतीति सूत्रार्थे समस्तार्थस्य सिद्धत्वात्, तस्मात् पृथग्योगात् कर्मण एव विशेषणं न कृत इत्यस्य । 15 अन्यत्रेति-यत: "कर्मणि कृतः" [२. २. ८३. ] इत्यनेन द्वयोरपि कर्मरणोः षष्ठी प्राप्ता पक्षेऽनेन निषिध्यते । अजाया नेता सुघ्नमिति-एकत्रेति सामान्येन निर्देशात् प्रधानाप्रधानकर्मणोरविशेषेण ग्रहणमित्युभयत्रवोदाहरति । ननु कर्मणीत्यधिकृतत्वादेकशब्दस्य च द्वितीयसव्यपेक्षत्वात् एकत्रेत्युक्तऽपि द्वयोः कर्मणोरेकतरस्मिन्निति गम्यत एव, किं द्वयोरित्यनेन ? नैवम्-एवं सति प्रधानाप्रधानसंनिधौ प्रधाने कार्यसंप्रत्ययः इति20 न्यायात् प्रधान एव कमरिण स्यात्; यद्वा गोरणादित्यधिकारात कमीपेक्षयापि गुणकमण्येव स्यादिति द्वयोरपि प्रधानाप्रधानकर्मणोः पर्यायेण षष्ठीविकल्पार्थं द्वयोरित्युपादानमित्यदोषः ।। २. २. ८५ ।।
कर्तरि ॥२. २. ८६ ॥
कृदन्तस्य कर्तरि गौणानाम्नः षष्ठी भवति, तृतीयाऽपवादः । भवत25 प्रासिका, भवतः शायिका, भवतः स्वापः, भवत आसना, भवतोऽग्रगामिका । कर्तरीति किम् ? गृहे शायिका। कृत इत्येव-त्वया शय्यते ।। ८६ ।।