________________
[पा० २. सू० ८२-८३.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ २७५
श्रूयमारणक्रियः, यथा-न माषाणामश्नीयादिति । अस्येदंभावरूप इति-अस्येदंशब्दस्य यो भावः-प्रवृत्तिनिमित्तं सः। संबन्धविशेष इति-अत्र कारकसंबन्धाद् भिद्यमानः सम्बन्धः संबन्धविशेष उच्यते, यावता संबन्ध इत्युक्त ऽपि सिद्धयेत्, विशेषस्थापनायोक्तम् । राज्ञः पुरुष इत्यादिषु यथाक्रमं संबन्धः कथ्यते-स्वस्वामिभावसंबन्धः, जन्य-जनकसं०, अवयवा-ऽवयविसं०, प्राधार-ऽऽधेयसं०, प्रकृतिविकारभावसंबन्धः, समूह-समूहिभावसं०, 5 समीप-समीपिभावसं०, . पाल्य-पालकभावसं०, प्राश्याशनभावसं०, शिक्षणीयशिक्षणभावसं०, ज्ञान-ज्ञेयभावसं०, प्रास्यासनभावसं०, भक्ष्य-भक्षणभावसं०, देवनद्यूतभावसं०, दान-दानिविषयसं०, श्रवण-श्रवणावधिभावसं०, पतन-पतनावधिभावसं०, विभाष्य-विभाषणभावसंबन्धः, इत्यादिः। प्रथमापवाद इति-एक-द्वि-बहाविति संख्यामात्रमुपादाय नाम्नः प्रधानादप्रधानाच्च सामान्येन प्रथमा विधीयते, तत्राऽयं षष्ठीविधि-10 गौंणादिति विशेषमुपादाय प्रवर्त्तमानस्तदपवादो भवति ।। २. २. ८१ ॥
रिरिष्टात-स्तादस्तादसतसाता ॥२. २. ८२ ॥
'रि - रिष्टात् - स्तात् - अस्तात् - अस्-अतस्-आत्' प्रत्ययान्तैर्युक्ताद् गौणानाम्नः षष्ठी विभक्तिर्भवति । रि-उपरि ग्रामस्य, रिष्टात्-उपरिष्टाद् ग्रामस्य, स्तात्-परस्ताद् ग्रामस्य, अवरस्ताद् ग्रामस्य ; अस्तात्-पुरस्ताद्15 ग्रामस्य, अवस्ताद् ग्रामस्य, अधस्ताद् ग्रामस्य; अस्-पुरो ग्रामस्य, अवो ग्रामस्य, अधो ग्रामस्य; अतस्-दक्षिणतो ग्रामस्य, उत्तरतो ग्रामस्य, परतो ग्रामस्य, अवरतो ग्रामस्य ; प्रात्-अधराद् ग्रामस्य, दक्षिणाद् ग्रामस्य, उत्तराद् ग्रामस्य, पश्चाद् ग्रामस्य; दक्षिणपश्चाद् ग्रामस्य । पञ्चम्यपवादो योगः ।। ८२ ॥
20 न्या० स०--रिरिष्टा०। परस्तादिति-परः परा वा प्रकृतिः “परावरात् स्तात्" [७. २. ११६.] "सर्वादयोऽस्यादौ" [३. २. १६.] इति पुभावः । दक्षिरणपश्चादिति-दक्षिणा च साऽपरा च दक्षिणापरा तस्यां वसति । रिप्रभृतयः प्रत्ययाः स्वार्थिका दिक्शब्देभ्यो विधीयन्ते, अतस्तदन्ता अपि दिकशब्दा एव इति “शेषे" [२. २. ८१. ] इत्यस्यापवाद: "प्रभृत्यन्यार्थ०" (२. २. ७५.] इति पञ्चमी विधीयते ।25 अत एव दक्षिणा ग्रोमाद् रमणीयम्, दक्षिणाहि ग्रामाद् रमणीयमिति "पाही दूरे" [७. २. १२०. ] इति प्रत्ययद्वययोगे षष्ठी न लभ्यत इत्याह-पञ्चम्यपवाद इति ।। २. २. ८२॥
कर्म णि कृतः॥२. २. ८३ ॥ कृत:-कृदन्तस्य संबन्धिनि कर्मणि गौणानाम्नः षष्ठी भवति, द्वितीया-30