SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्ति - लघुन्याससंवलिते जानाति । करण इत्येव - तैलं सर्पिषो जानाति तैलं सर्परूपेण प्रतिपद्यत इत्यर्थः, अत्र तैलात् कर्मणो मा भूत्, सर्पिषस्तु करणत्वाद् भवत्येव । तृतीयाऽपवादो योगः ।। ८० ।। २७४ ] [ पा० २. सू० ८१.] न्या० स०-- अज्ञाने० । वेति निवृत्तमिति - भिन्नविभक्तिविधानादिति शेषः । सर्पिषो जानीते अत्र "ज्ञः" [३. ३. ८२.] इत्यात्मनेपदम् । अत्र करणस्य संबन्धिरूप - 5 विवक्षया सर्पिष इदं ज्ञानं नान्यस्येति षष्ठी सिध्यतीति किमर्थोऽयं योग इत्याहतृतीयापवादो योग इति प्रयमर्थः - सिध्यति षष्ठी, किन्तु करणविवक्षायां तृतीया मा भूदित्ययं योगः । सर्पिषामिति - आज गव्य माहिषाणां घृतानामित्यर्थः ।। २. २. ८० ।। शेषे ।। २.२. ८१ ॥ कर्मादिभ्योऽन्यः क्रियाकारकपूर्वकः कर्माद्यविवक्षालक्षणोऽश्रूयमाणक्रियः 10 श्रूयमाणक्रियो वाऽस्येदंभावरूपः स्वस्वामिभावादिः संबन्धविशेषः - शेषः, तत्र गौरणान्नाम्नः षष्ठी भवति । राज्ञः पुरुषः, उपगोरपत्यम्, पशोः पादः, वृक्षस्य शाखा, क्षीरस्य विकारः, गवां समूहः, कुम्भस्य समीपम्, पृथिव्याः स्वामीति, - न माषाणामश्नीयात्, सुभाषितस्य शिक्षते, न ते सुखस्य जानते, न तस्य सायमश्नीयात्, अन्नस्य नो देहि, अक्षारणां दीव्यति, घ्नतः पृष्ठं ददाति, नटस्य 15 शृणोति, वृक्षस्य पर्णं पतति, महतां विभाषते । कथं पुनः कर्मादीनां सतामप्यविवक्षा ? यथा - अनुदरा कन्या, अलोमिका एडकेति । गौणादित्येव - राज्ञः पुरुषः, अत्र संबन्धस्य द्विष्ठत्वेऽपि प्रधानात् पुरुषान्न भवति, प्राधान्यं चास्याऽऽख्यातपदसामानाधिकरण्यम् तेन ततः प्रथमैव भवति, यदा तु पुरुषो राजानं प्रति गुणत्वं प्रतिपद्यते तदा पुरुषस्य राजेति भवत्येव । कथं राज्ञ: 20 पुरुषस्य कम्बल इति ? राजाऽपेक्षया पुरुषस्य प्राधान्येऽपि कम्बलापेक्षया गौणत्वाद् भवति । प्रथमाऽपवादो योगः ।। ८१ ।। न्या० स० - - शेषे० । सरस्वतीकण्ठाभरणे कर्मादिकारकारिण, इन्द्र- चान्द्राभ्यां करणप्राधान्यं श्रुतपालेन कलापके चाऽपादानस्य प्राधान्यं शकटाभिप्रायेण स्वमते च कर्तुः प्राधान्यत् । क्रियाकारकपूर्वक इति क्रिया च कारकं च क्रियाकारके, ते पूर्वे यस्य 25 स तथा, यथा - राजपुरुषः, राजा कर्ता पुरुषं बिर्भात अतो राजपुरुष इत्युच्यते । कर्माद्यविवक्षालक्षरण इति - कर्मादिभ्योऽन्य इति तु विशेषेभ्योऽन्यत्वं विवक्षितु न तु सामान्यादनाश्रितविशेषात् कारकादपि । अश्रूयमारण क्रियः यथा - राज्ञः पुरुष इत्यादि ।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy