SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ [ पा० २. सू० ४०. ] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २४५ विशेषणविशिष्टस्य कटस्य करोतिक्रियया व्याप्यत्वात् कर्मत्वम्, तच्च कटशब्दादेवोत्पन्नया द्वितीययाऽभिहितमिति भीष्मादिभ्यो द्वितीया न प्राप्नोति, यथा - कृतः कटो भीष्म उदारो दर्शनीय इति करोतेः क्त प्रत्ययेनेति, नैवम्भीष्मत्वादियुक्तस्य कटस्य सम्बन्धिकर्मत्वं प्रतिपाद्यम्, न च जातिशब्दाः सम्भविनोऽपि गुणान् प्रतिपादयितुं समर्था इति तत्प्रतिपादनाय यथा भीष्मा - 5 दिशब्दप्रयोगो भवति तथा द्वितीयाऽपि तेभ्यो भविष्यति, नहि सामान्यवाचिनः कटशब्दादुत्पद्यमानां द्वितीया भीष्मादीनामनियताधाराणां गुणानां कर्मत्वभिधातुं शक्नोति यदि वा कटोऽपि कर्म भोष्मादयोऽपि यथैव ह्ययं कटं करोत्येवं तद्गतान् भीष्मादोनपि, तत्र यद् यत् करोतिना व्याप्तुमिष्टं तत् सर्वं द्रव्यं गुणश्च कर्मेति सर्वेषां पृथक् कर्मत्वे प्रत्येकं द्वितीया, पश्चात् त्वेकवाक्यतया 10 विशेषणविशेष्यभाव इति; यदिवा द्रव्यस्य क्रियासु साक्षादुपयोगादस्तु कटस्यैव कर्मत्वम्, भीष्मादीनां तु न केवला प्रकृतिः प्रयोक्तव्या इति नियमाद् अविभक्तिकानामप्रयोगार्हत्वादेकविभक्तिमन्तरेण च सामानाधिकरण्यविशेषणत्वायोगाद्, यथा - ईश्वरसुहृदां स्वयं निर्धनत्वेऽपि तदेकयोगक्षेमत्वात् तद्धनेनैव फलभाक्त्वं भवत्येवमकर्मणामपि कटकर्मत्वेनैव द्वितीया भविष्यति ; 15 कृतः कटो भीष्म उदारो दर्शनीय इत्यादौ तु करोतेरुत्पद्यमानः क्तो यस्य यस्य तया क्रियया सम्बन्धस्तस्य तस्य साकल्येन कर्मत्वमभिदधातीति क्वचिदपि द्वितीया न भवति कथं तर्हि 'कृतं पश्य, ग्राहृतमाहर, कर्त्रा क्रियते, दात्रेण लुनाति दानीयाय ददाति भीमाद् बिभेति प्रासादे प्रसीदति, शयने शेते,' इत्यादिषु क्तादिभिरभिहितेषु कर्मादिषु द्वितीयादयो भवन्ति ?, उच्यते - 20 कर्मादिसामान्यं कृद्भिरभिहितं तत्राप्यभिहितः सोऽर्थोऽन्तर्भूतो नामार्थः सम्पन्न इति कर्मादिशक्तियुक्तं द्रव्यमेव तदन्तैः शब्दैरभिधीयते, यथेदं कर्म, इदं करणमिति, तत्र याऽसौ स्वरूप - कालभिन्नायां क्रियायां सव्यापारतया कर्मादिरूपता तदभिधानाय यथायथं द्वितीयादयो भवन्ति, यत्र पुनरेकद्रव्याधारा प्रधानाऽप्रधानक्रियाविषयाऽनेका शक्तिर्भवति तत्र प्रधानक्रियाविषयायां शक्तौ 25 प्रत्ययैरभिहितायामप्रधानक्रियाविषया शक्तिः प्रधानशक्त्यनुरोधादभिहितवत् प्रकाशमाना विभक्त्युत्पत्तौ निमित्तं न भवति, यथौदनः पक्त्वा भुज्यते देवदत्तेनेति भावाऽभिधायिना क्त्वाप्रत्ययेनौदनाधिकरणाप्रधानपचिक्रियाविषया
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy