________________
२४६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० २. सू० ४१.]
कर्मशक्तिरनभिहिताऽपि प्रधानभुजिक्रियाविषयाऽऽत्मनेपदेनाभिहितेति तद्वत् प्रकाशमाना द्वितीयोत्पत्तौ निमित्तं न भवति, यथा च ग्रामो गन्तुमिष्यते देवदत्तेनेति ग्रामस्य प्रधानेषिक्रियाविषयां कर्मशक्तिमात्मनेपदेनाभिदधताऽप्रधानमभिक्रियाविषयाऽपि कर्मशक्तिरुपभुक्त ति तदभिधानाय द्वितीयाचतुथ्यौं न भवत इति । इह च गौणत्वं क्रियाऽपेक्षं, तेनाऽजां नयति ग्राममित्यादौ 5 ग्रामाद्यपेक्षयाऽजादेः प्रधानत्वेऽपि गौणत्वं न विहन्यत इति । इह तु-कृतपूर्वी कटं, भुक्तपूर्वी प्रोदनम्, व्याकरण सूत्रयतीत्यादौ यः कृतादिभिः कटादेरभिसम्बन्धः स प्रत्ययेऽर्थान्तराऽभिधायिन्युत्पन्ने कृतादीनामुपसर्जनत्वान्निवर्तते, क्रियया तु सह सम्बन्धोऽस्तीति व्याप्यत्वाद् द्वितीया भवति ।। ४० ।।
न्या० स०--कर्मणि। शब्दप्रयोगायोगादिति-अर्थप्रत्यायनाय हि लोके शब्द:10 प्रयुज्यते, स चार्थो यदा शब्दान्तरेण प्रतिपादितः स्यात् तदा प्रयोजनाभावाच्छब्दान्तरप्रयोगो न कर्तव्यः। अनियताधाराणामिति-नहि भीष्मत्वादीनां कर्ट एवाधारः कि त्वन्येऽपि। न केवला प्रकृतिरिति-नापदं प्रयुखोतेति न्यायात् । तदेकयोग-क्षेमत्वादितिअलब्धलाभो योगः, लब्धार्थपरिरक्षणं क्षेमः, तस्य देवदत्तादेर्यावको योग-क्षेमौ तयोर्भावः । कर्मादिसामान्यमिति-करणादिक्रियामात्रयोग्यमित्यर्थः । तत्रापीति-सामान्यकर्माभि-15 धानेऽपि । अन्तर्भूत इति-तत्राभिहितोऽपि कश्चिन्नान्तर्भवति, यथा-राज्ञः पुरुष इत्यत्र वाक्ये षष्ठया सम्बन्धोऽभिधीयते, न तु क्वचिदन्तर्भावमुपयातीति द्वयोरुपादानम् । तत्रेति-कर्मादिशक्तियुक्त द्रव्य इत्यर्थः । स्वरूपकालभिन्नायामिति-कृताहृतेत्यादिक्रियापेक्षया स्वरूपेण कालेन च पश्याहरेत्यादिका क्रिया भिन्ना। सव्यापारतयेतिकारकत्वेनेत्यर्थः । यथायथमिति-या यस्य स्वा इत्यर्थः । प्रधानाप्रधानक्रियेति-20 एकस्मिन् वाक्ये यूगपदनेकप्रधानक्रियाणामसम्भवात् प्रधानाप्रधानक्रियाविषयैवानेका शक्तिरिति तत्क्रियापेक्षया शक्त रपि गुरगप्रधानभावो भवतीत्यत पाह-प्रधानशक्त्यनुरोधादित्यादि। अत्रैवोदाहरणान्तरं दर्शयति-यथा च ग्रामो गन्तुमिष्यत इति । ननु गौरणानाम्नः कर्मणि द्वितीयेत्युक्तम, अजां नयति ग्राममित्यादौ तु ग्रामाद्यपेक्षया अजादे: प्रधानत्वान्न ततो द्वितीया प्राप्नोतीत्याह-इह चेति । क्रियापेक्षमिति-आख्यातपदेना-25 समानाधिकरणं गौणमिति गौणत्वस्य द्वयोरपि कर्मणोर्भावात् क्रियापेक्षं गौणत्वमाश्रितम् । न विहन्यत इति-तेन गौणत्वाजाशब्दादपि द्वितीया सिद्धा ।। २. २. ४० ।।
क्रियाविशेषणात् ।। २. २. ४१ ॥
क्रियाया यद् विशेषणं तद्वाचिनो गौणानाम्नो द्वितीया भवति । मृदु पचति, स्तोकं पचति, मन्दं गच्छति, सुखं शेते, दुःखं जीवति, सयुक्तिक भाषते,30