________________
[पा० २. सू० ३७-३८.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ २४३
ममाऽभि स्यात् तद् दीयताम्, अत्राभिना भागसम्बन्धो द्योत्यते, योऽत्र मम भागः स्यादित्यर्थः। अत्रापि बहुवचनं यथासङ्खयाऽभावार्थम्, एवमुत्तरत्र ।। ३६ ।।
न्या० स०--लक्षण। समुदायस्येति-वनादेरित्यर्थः । साकल्येनेति-सहार्थे तृतीया । इत्थंभूत इति-अनेन साधुत्वादिना प्रकारेण [प्रकार:-सामान्यस्य भेदको 5 धर्मो विशेष इत्यर्थः] इत्थं भवनं "क्लीबे" [५. ३. १२३. ] क्तः, इत्थंभूतमत्रास्ति "अभ्रादिभ्यः" [ ७. २. ४६. ] ; यद्वा-इत्थं देवदत्तो भवत्यस्मिन् मात्रादौ "अद्यर्थात्" [ ५. १. १२. ] इति क्त-इत्थंभूतो मात्रादिः, "अव्ययं प्र०" [ ३. १. ४८. ] इति सः । वृक्षं वृक्षमभिसेक इति-अत्र वृक्षस्य वृक्षस्य सेक इति सेकेन वृक्षाणां वीप्स्यमानानां सेकं प्रति यस्तेषां साध्यसाधनभावलक्षणः सम्बन्धः सोऽभिना द्योत्यते; वीप्सा तु द्विवचन-10 द्योत्यैवेति । अन्ये त्वन्यथा वर्णयन्ति-वीप्सा-विप्स्यमानयोः सम्बन्धो द्विवचनेनैव द्योत्यते, न त्वभिना, इति सम्बन्धमद्योतयतापि तेन योगे वचनाद् द्वितीयेति ।। २.२.३६॥
भागिनि च प्रति पर्यनुभिः ॥ २. २. ३७ ॥ - स्वीक्रियमाणोंऽशो भागः, तत्स्वामी भागी, तत्र लक्षणादिषु चार्थेषु वर्तमानात् प्रति-पर्यनुभिर्युक्ताद् गौणानाम्नो द्वितीया भवति । भागिनि-15 यदत्र मां प्रति मां परि मामनु स्यात्, योऽत्र मम भाग आभवति स दीयतामित्यर्थः; लक्षणे-वृक्षं प्रति वृक्षं परि वृक्षमनु विद्योतते विद्युत् ; वीप्स्ये-वृक्षं वृक्षं प्रति वृक्षं वृक्षं परि वृक्षं वृक्षमनु सेचनम् ; इत्थंभूते-साधुर्देवदत्तो मातरं प्रति मातरं परि मातरमनु । एतेष्विति किम् ? अनु वदनस्याशनिर्गता, समीप इत्यर्थः ।। ३७ ।।
न्या० स०--भागिनि च० । अाभवतीति-आङ पूर्वको भूधातुर्भागागमे वर्तत इति हि धातुपारायणविदः । स्वीक्रियमारण इति-यस्त्वस्वीक्रियमाणेऽप्यंशे भागशब्दः प्रयुज्यते-“नगरस्य भागः, प्रियङ्गोर्भागः' इति स स्वीक्रियमाणभागसादृश्यादिति ।। २.२.३७॥
20
हेतु-सहाथैतुना ॥ २. २. ३८ ॥
25 हेतुर्जनकः, सहार्थस्तुल्ययोगो विद्यमानता च, तद्विषयोऽपि सहार्थ उपचारात्; तयोर्वर्तमानादनुना युक्ताद् गौणान्नाम्नो द्वितीया भवति ।