________________
२४२ ]
बृहवृत्ति-लघुन्याससंवलिते
[पा० २. सू० ३४-३६.]
दिभिनिपातैः सहैकवाक्योपात्तत्वादेतावपि निपातावित्यर्थः । अन्येनापीति-द्विधा व्याख्येय-समयादिव्यतिरिक्तन यावच्छब्दादिना नाम्ना नामव्यतिरिक्त न धात्वादिनापि योगे गौरणानाम्नो द्वितीया भवतीति। अक्ष-तृतीयनेत्रं पादे यस्य स तथा ।। २.२.३३ ।।
दिवत्वेऽधो-ध्युपरिभिः ॥ २. २. ३४ ।।
अधस्-अधि-उपरिभिर्युक्ताद् गौणानाम्न एषामेव द्वित्वे ,सति द्वितीया 5 भवति, षष्ठ्यपवादः; बहुवचनमेक-द्वि-बहाविति यथासङ्घयनिवृत्त्यर्थम् । अधोऽधो ग्रामं ग्रामाः, अध्यधि ग्रामं क्षेत्राणि; उपर्युपरि ग्रामं ग्रामाः । द्वित्व इति किम् ? अधः प्रासादस्य, हर्म्यस्योपरि प्रासादः ; असामीप्याच्च द्वित्वं न भवति ॥ ३४ ॥
न्या० स०--द्वित्वेऽधो०। "सामीप्येऽधोऽध्यपरि" [७.४.७६.1 इति द्वित्वम् ।10 असामीप्याच्चेति-अत्रौत्तराधर्यमानं विवक्षित न सामीप्यमिति द्वित्वाभावः ।।२. २. ३४।।
सर्वोभया-अभि-परिणा तसा ॥ २. २. ३५ ॥
सर्वादिभिस्तसन्तैर्युक्ताद् गौणान्नाम्नो द्वितीया भवति, षष्ठ्यपवादः । सर्वतो ग्रामं वनानि, उभयतो ग्रामं वनानि, अभितो ग्राम क्षेत्राणि, परितो ग्रामं क्षेत्राणि ।। ३५ ।।
15 न्या० स०--सर्वोभ० । सर्वादिविशेषणत्वात् "विशेषणमन्त:" [७. ४. ११३.] इति न्यायात् सर्वादिभिस्तसन्तैरिति ॥ २. २. ३५ ।।
लक्षण-वीप्स्येत्थंभूतेष्वभिना ॥ २. २. ३६ ॥
लक्ष्यते दर्श्यते येन तल्लक्षणं-चिह्नम्, अवयवशः समुदायस्य क्रियादिना साकल्येन प्राप्तीच्छा-वीप्सा, तत्कर्म वीप्स्यम्; केनचिद् विवक्षितेन विशेषेण20 भाव इत्थंभावः, तद्विषय इत्थंभूतः; एष्वर्थेषु वर्तमानादभिना युक्ताद् गौणान्नाम्नो द्वितीया भवति । वृक्षमभि विद्योतते विद्युत्, अत्र वृक्षो लक्षणम्, विद्योतमाना विद्युल्लक्ष्यम्, अनयोश्च लक्ष्यलक्षणभावः सम्बन्धोऽभिना द्योत्यते; वृक्षं वृक्षमभि सेकः, एकैकस्य वृक्षस्य सेक इत्यर्थः; साधुर्देवदत्तो मातरमभि, मातृविषये साधुत्वप्रकारं प्राप्त इत्यर्थः । लक्षणादिष्विति किम् ? यदत्र25