SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ [ पा० २. सू० ३०. ] श्री सिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः मीप्सितम्” इति न वक्तव्यम् । स्फुट एवेति-कायसंसर्गपूर्वक इत्यर्थः । शृङ्गांच्छरो जायत इति उक्तं च गोपुराणे "गोलोमाज्जायते दूर्वा, गोमयाद् वृश्चिकः स्मृतः । गोदोहाद् गोरसं प्राहुर्गेशृङ्गादुच्यते शर: ।। १ ।। " [ २३५ यदि निष्क्रामन्तीति प्रयमर्थः यत् किल यतोऽपक्रामति तर पुनस्तत्र न दृश्यत 3 इति प्रसिद्धम्, इह तु तंत्र तस्यास्ति दर्शनमित्याह - श्रत्यन्तायेति - प्रत्यन्तमित्यर्थेऽव्ययं, क्रियाविशेषणत्वादम् । सन्ततत्वादिति - निष्क्रमणस्येति गम्यते, प्रयमर्थः - एकेऽवयवा निष्क्रान्ता अन्ये निष्क्रामन्तः सन्तीति यथा बिलाइ दीर्घभोगो भोगी निष्क्रामन्नपि सन्ततत्वात् तत्रोपलभ्यते तथा शरादयोऽपीत्यर्थः । अन्यान्यप्रादुर्भावाद् वेति- प्रन्यावयवयोगात् समुदायोऽप्यन्यः, ततोऽन्यश्चासावन्यश्च ेति कार्यम् समाहारे तु "त्यदादिः " 10 [३. १. १२०.] इत्यनेनैकशेषः स्यात् । गङ्गा प्रभवतीति ततः प्रथममुपलभ्यत इत्यर्थः, अत्रापि भुवः कर्तु : प्रभवोऽपादानम्" इत्यपि न वक्तव्यम् । श्रत्यन्तमिति श्रन्तमतिक्रान्तम् । षड् योजनानीति प्रत्र षड्योजनरूपस्याध्वनः शत्रुञ्जय इत्यनेनाध्वनोऽन्तेन सह “गते गम्ये०” [२. २. १०७.] इति सूत्रेण सामानाधिकरण्यं तस्माच्च शत्रुञ्जय इत्यस्माद या प्रथमा विभक्तिः सा योजनानीत्यत्रापीति । गतानीति - चैत्रेरण कर्त्रा षड् योजनानि 15 गतानि - प्रतिक्रान्तानीति योजनानां कर्मत्वम्, उपचाराद् योजनस्थनरगतापेक्षया योजनान्यपि गतशब्देनोच्यन्त इति तेषां कर्तृत्वं वा । गतेष्विति - प्रतिक्रान्तेष्वित्यर्थः । अग्रहायणीति -ग्रं हायनस्य " पूर्वपदस्थात्." [२. ३. ६४.] इति णत्वम्, अग्रहायणेनमृगशिरसा चन्द्रयुक्त ेन युक्ता पौर्णमासी "चन्द्रयुक्ता ०” [६.२.६.] इत्यण् । बलाहकमितितं प्राप्यान्तर्भूतण्यर्थी वा ।। २. २. २६ ।। क्रियाssश्रयास्याssधारोऽधिकरणम् ॥ २. २.३० ॥ 20 क्रियाऽऽश्रयस्य कर्तुः कर्मणो वा य आधारस्तत् कारकमधिकरणसंज्ञं भवति, अत्रापि प्रसिद्धाऽनुवादेनाप्रसिद्धस्य विधानमिति यत् क्रियाऽश्रयस्याधिकरणं तदाधारसंज्ञं भवतीत्यपि सूत्रार्थः । कटे आस्ते, स्थाल्यां पचति; चैत्रसमवायिन्यमासिक्रियायां तदाश्रयं चैत्रं धारयन् कटादिर्हेतुतां प्रतिपद्यते, 25 तण्डुलसमवायिन्यां च विचटनकियायां तदाश्रयांस्तण्डुलान् धारयन्ती स्थाली हेतुत्वं प्रतिपद्यत इत्युभयत्र कारकत्वम् । तत् षोढा-वैषयिकम्, श्रपश्लेषिकम्, अभिव्यापकं सामीप्यकम्, नैमित्तिकम्; औपचारिकं च । तत्र अनन्यत्र भावो विषयः, तस्मै प्रभवति - वैषयिकम् - दिवि देवाः, नभसि तारकाः, भुवि मनुष्याः, पाताले पन्नगाः । एकदेश मात्र संयोग उपश्लेषः, तत्र भवम् - प्रौपश्लेषिकम् - 30 कटे ग्रस्ते, पर्यङ्के शेते, शाखायां लम्बते, गृहे तिष्ठति । यस्याधेयेन
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy