________________
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० २. सू० ३०.]
समस्तावयवसंयोगस्तद्-अभिव्यापकम्, तद्धि प्राधेयेनाभिव्याप्यते, आधेयं वाऽभिव्याप्नोतीति कृद् "बहुलम्" [५. १. २.] इति कर्मण्यपि णकः; तिलेषु तैलम्, दध्नि सपिः, गवि गोत्वम्, तन्तुषु पट: । यद् अाधेयसन्निधिमात्रेण क्रियाहेतुस्तत्-सामीप्यकम्-गङ्गायां घोषः, कूपेषु गर्गकुलम्, बन्धुष्वास्ते, गुरौ वसति । निमित्तमेव-नैमित्तिकम्-युद्धे सन्नह्यते, शरदि पुष्प्यन्ति सप्तच्छदाः, 5 प्रातपे क्लाम्यति, छायायामाश्वसिति । उपचारे भवम्-प्रौपचारिकम्अङ्गुल्यग्रे करिशतमास्ते, स मे मुष्टिमध्ये तिष्ठति, यो यस्य द्वष्यः स तस्याऽक्ष्णोः प्रतिवसति, यो यस्य प्रियः स तस्य हृदये वसति । अधि-. करणा-ऽऽधारप्रदेशाः-“सप्तम्यधिकरणे' [२. २. ६५.], "अद्यर्थाच्चाधारे" [५. १. १२.] इत्यादयः ॥ ३० ॥
10 न्या० स०-क्रियाऽऽश्रयस्य०। आश्रीयत इत्याश्रयः "भूथ्यद०" [५. ३. २३.] इत्यलि, क्रियाया आश्रय क्रियाश्रयः, क्रियासम्पादक इत्यर्थः। आध्रियेते अवतिष्ठेते क्रियाश्रयो कर्तृ-कर्मणी अस्मिन्निति "न्यायावाय." [५. ३. १३४.] इत्यादिना घनि-- आधारः। विचटनक्रियायामिति--विचटनमवयवानामुच्छनता। हेतुत्वं प्रतिपद्यत इति
यदुक्त
"कर्तृ कर्मव्यवहितामसाक्षाद्धारयत् क्रियाम् ।
उपकुर्वत् क्रियासिद्धौ शास्त्रेऽधिकरणं स्मृतम्' ।। १ ।। विषयाय प्रभवति "तस्मै योगादेः शक्त" [ ६. ४. ६४. ] इतीकरिण-वैषयिकम् । औपश्लेषिकमिति-"अध्यात्मादिभ्य इकण" [ ६. ३. ७८.] । गवि गोत्वमितिअनवयवस्यापि गोत्वादेर्व्यक्त्याद्यवयवान् व्याप्याऽवतिष्ठमानस्य व्यक्त्यादिरभिव्यापक 20 एवाधारः। सामीप्यकमिति-भेषजादिटयणन्ता स्वार्थे कः । नन्वाश्रय आधारो भवति, प्राश्रयश्च संयोग-समवायाभ्यां भवति, न चावस्थितिक्रियाश्रयेण घोषादिना गङ्गादेः संयोग-समवायौ स्तः, नैष दोष:-यदायत्ता हि यस्य स्थितिः स विनाऽपि संयोगसमवायौ तस्याश्रयो भवति, यथा-राजपूरुष इत्यत्र न राज्ञा सह संयोगसमवायौ स्त:, अथ च तदधोनस्थितित्वाद् राजाश्रय पुरुष इति लोके व्यपदिश्यते । नैमित्तिकमिति-अत्र25 "विनयादिभ्यः" [७. २. १६६.] इतीकरण । युद्धे सन्नात इति-सन्नहनादयोऽन्यत्रापि केनचिनिमित्तेन सम्भवन्तोति न युद्धा दिवैषयिकः । औपचारिक मिति-अत्र “अध्यात्मादिभ्य इकरण" [ ६. ३. ७८. ], अन्यत्रा स्थित स्यान्य त्राध्यारोप उपचारः। अगुल्यग्रे करिशतमिति-अत्र हि करिशतादीनामन्यत्रावस्थितानां केनापि प्रयोजनादिनाङ गुल्यग्रादावध्यारोप्यमाणानामङ गुल्यग्रादिरौपश्लेषिकाद् भिन्न औपचारिक आधार उच्यते, यदा30 त्वङ गुल्यग्रादिशब्देनोपचारादाधेयाधिष्ठितो देश एवोच्यते तदा प्रौपश्लेषिक एवाधारः; अत एवाह