________________
२३४ ]
बृहवृत्ति-लघुन्याससंवलिते
[पा० २. सू० २६.]
भवतीत्यर्थः; कार्तिक्या प्राग्रहायणी मासे, ततः प्रभृति मासे गते भवतीत्यर्थः; उभयत्रापायः प्रतीयते । चैत्रान्मैत्रः पटुः, अयमस्मादधिकः, अयमस्मादूनः, माथुराः पाटलिपुत्रकेभ्य आढचतराः, अत्र मैत्रादयः पुस्त्वादिना संसृष्टाः पटुत्वादिधर्मेण ततो विभक्ताः प्रतीयन्ते इति सर्वत्राप्यपायविवक्षा । विवक्षान्तरे त्वपादानत्वाभावे यथायोगं विभक्तयो भवन्ति-बलाहके विद्योतते, बलाहकं । विद्योतते, अधर्म जुगुप्सते, अधर्मेण जुगुप्सते, मौर्येण प्रमाद्यति, चौरैर्भयम्, चौरैबिभेति, चौरेषु बिभेति, चौराणां बिभेति, भोजनेन पराजयते, शत्रून् पराजयते, यवेषु गां वारयति; शृङ्ग शरो जायत इति ।। २६ ।।
न्या० स०--अपायेऽवधिः। "इण्क्" अपायनं "युवर्ण०" [ ५. ३. २८. ] इत्यलि, “अयि-वयि०" धातुना भावाकोंर्घत्रि वा। अवधीयते-मर्यादीक्रियते बुद्धया10 "उपसर्गाहः कि:" [ ५.३.८७.]। गमन मिति-अपायहेतत्वाद् गमनमप्यपायः, उपलक्षणं चेदं, तेन-परमार्थतो विभागोऽपाय इति सिद्धम् । ग्रामादागच्छतीति-ग्रामादेरौदासीन्यमेवान्तरव्यापारः। सार्थाद्धीनः कर्मकर्तरि कर्मणि वाऽत्र क्तप्रत्ययः । उपात्तविषयमिति-उप-समीपे धातुना धात्वन्तरस्यात्तः-स्वीकृतो विषयोऽर्थो यत्र तत्। धात्वन्तरार्थाङ्गमिति-धात्वन्तरार्थोऽङ्ग-विशेषणं यस्य, धात्वन्तरार्थस्य वाऽङ्गम् । निःसरणाङ्ग15 इति-नि:सरणं चापायरूपमिति भावः । यदा त बलाहकान्निःसत्य कशलादादायेति निःसृत्या-ऽऽदायशब्दवन्तौ प्रयोगौ क्रियेते तदा विद्युति-पचिधातू केवले स्वार्थे विद्योतने विक्लेदने च वर्तेते, 'निःसरति, प्राददाति' क्रियापेक्षया तु बलाहक-कुशूलयोनिदिष्टविषयमपादानत्वम् । सांकाश्यकेभ्य इति-संकाशेन निर्वृत्तं "सुपन्थ्यादेयः" [ ६. २. ८४. ], तत्र भवा:-"प्रस्थपुर०" [ ६. ३. ४३. ] इत्यकञ्, अत्र निर्धार्यन्त इति क्रिया20 प्रतीयते । अपायश्चेति ननु कायसंसर्गपूर्वको विभागो मूख्यो बुद्धिपरिकल्पितस्तु गौरणः, ततश्च *गौरण-मुख्ययोमुख्यस्यैव परिग्रहात्र सांकाश्यकेभ्य इत्यादौ कारकशेषत्वात् षष्ठो प्राप्नोति, नैवम्-“साधकतमं करणम्" [ २. २. २४. ] इत्यत्र तमग्रहणेन गौणग्रहणस्यापि ज्ञापितत्वाभयरूपस्यापि अपायस्य परिग्रह इति। अत्र माहेश्वरव्याकरणश्लोक:-"बुद्धयेत्यादि । तथा-चौरेभ्यो बिभेतीति-अत्र बुद्धिकृतापायस्य विद्यमान-25 त्वाद् "भोत्राणार्थानां धातूनां भयहेतुकमपादानम्" इति यदन्यैरुक्त तदत्र न वक्तव्यम्, भयम्-आकुलीभावः, त्राणम्-अनर्थप्रतीघात इति । तेभ्यो निवर्तत इति--निवृत्त्यङ्ग भये बिभेत्यादयो वर्तन्त इत्युपात्तविषयमेतदपादान । अध्ययनात् पराजयते, भोजनात् पराजयत इति-अत्र पराजिरसहने वर्तते, 'दुःखमध्ययनं दुर्वचं, गुरवश्च दुरुपचाराः, भोजनमपि व्याधितस्यातृप्त क्तवतो वा विरसत्वादिना दुःखम्' इति ततो निवर्तत इति30 "पराजेरसोढेऽर्थे" इति न वक्तव्यम, तत्रासोढग्रहणात् पराजयतिरसहनार्थो गृह्यते न तु ‘शत्रून् पराजयते' इतिवदभिभववृत्तिः । यवेभ्यो गां रक्षतीति-अत्र “वारगाार्थाना