SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ २२८ ] बृहवृत्ति-लघुन्याससंवलिते [पा० २. सू० २३.] [५. १. ११.] “अद्यर्थाच्चाऽऽधारे" [५. १. १२.] इति भावे कर्तर्याधारे च यथायथमात्मनेपद-क्तौ सिद्धौ । अकर्मणामिति किम् ? रात्रावुद्दे शोऽधीतः, अहन्यध्ययनमधीतम् । कथं पचत्योदनं मासम्, भक्षयति धानाः क्रोशम्, पिबति पयो गोदोहम्, भजति सुखं कुरून् ? द्विकर्मकत्वात् “कर्तुाप्यं कर्म" [२. २. ३.] इत्येव भविष्यति । अन्ये तु सकर्मकाणामकर्मकाणां च प्रयोगे 5 काला-ऽध्व-भावानामत्यन्तसंयोगे सति नित्यं कर्मत्वमिच्छन्ति-मासमास्ते, दिवसं पचत्योदनम्, क्रोशं स्वपिति, क्रोशं पठति वेदम्, गोदोहमास्ते, गोदोहं पचत्योदनम् । अनेन कर्मसंज्ञायां कर्मणि त्याद्यादयोऽपि-प्रास्यते मासः, सुप्यते क्रोशः, आसितो मासः, शयितः क्रोश इत्यादि । “काला-ऽध्वनोाप्तौ" [२. २. ४२.] इति च गुणद्रव्ययोगे एवेच्छन्ति न तु क्रियायोगे; अत्यन्तसंयो-10 गादन्यत्र तु-रात्रौ शेते, अध्वनि स्थित इत्यादावाधारत्वमेव ।। २३ ।। .. न्या० स०--काला-ऽध्व०। मास प्रास्यत इत्यत्र व्याप्तिविवक्षायामपि गौणाधिकारात् “काला-ऽध्वनो०" [२. २. ४२.] इत्यनेनापि द्वितीया न भवति । अध्वागन्तव्यमिति गमनाह, तेनाध्वशब्दाभिधेयस्याध्वनः कर्मसंज्ञा न भवति, नह्यसावध्वविशेषक्रोश-योजनादिवद् गमनमर्हति, यद्वाऽर्थप्रधानोऽयं निर्देशः, तेन कालाऽध्व-भाव-15 देशानां साक्षात्प्रयोगे न भवति, अपि तु तदर्थप्रतिपादकशब्दप्रयोगे । भावः-क्रियेति-क्रिया घत्रादिवाच्या सिद्धताख्या न तु साध्यमानेत्यर्थः । पर्वतादिरिति-पादिशब्दात् खेटकर्बट-मडम्बादिर्ग ह्यते। गोदोहमास्ते अत्र सामीप्यक प्राधारः, यदा तु गोदोहविशिष्टः कालो विवक्ष्यते तदा नैमित्तिकोऽपि । एवम्-ओदनपाक इत्यत्रापि। मासं पचतोति-- अकर्मणामित्यत्र नित्याकर्मणामविवक्षितकर्मणां च सामान्येन ग्रहणम्, इत्यविवक्षित-20 कर्मकानुदाहरति। "उलूखलराभरणः, पिशाचीवदभाषत । एतत् तु ते दिवानृत्तं, रात्रौ नृत्तं च द्रक्ष्यसि" ॥ १ ।। इदं गोदोहमासितमिति-अत्र बाहुलकात् षष्ठीप्राधि प्रति न कर्मता, तेन “कर्मणि कृतः" [२. २. ८३. ] इत्यनेन न षष्ठी, इदं सक्तूनां पीतमितिवदत्राधारे क्तः प्रत्ययः ।25 कथमिति-पचादोनां सकर्मकत्वान्न प्राप्नोतीत्याशङ्कार्थः । पचत्योदनं मासमित्यादिधातूनां स्वभावेन द्विकर्मकत्वम्, अथवा सर्वेऽप्यमी धातवः प्राप्त्युपसर्जने स्वार्थे वर्तन्ते, ततो मासादि प्राप्येत्यादिरों भवति द्विकर्मकता च । अन्येत्विति-विश्रान्तविद्याधरादयः। ननूत्तरेण “काला-ध्वनोाप्तौ" [२. २. ४२.] इत्यनेन सामान्येन सकर्मणामकर्मणां च प्रयोगे द्वितीया भविष्यति किमनेन कर्मसंज्ञाविधानसूत्रेणेत्याह-अनेन कर्म-30
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy