________________
[ पा० २. सू० २३. ] श्री सिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २२७
व्यवस्थितविभाषेयं तेन क्वचित् कर्मसंज्ञैव क्वचिदाधारसंज्ञैव भवतिकल्याणेऽभिनिविशते, या या संज्ञा यस्मिन् यस्मिन् संज्ञिन्यभिनिविशते, एतेषां शब्दानामेतेष्वर्थेष्वभिनिविष्टानाम्, अर्थेऽभिनिविष्टः ।। २२ ।।
,
न्या० स० -- वाऽभिनि० । अभिः पूर्वो यस्मान्न े: सोऽभिपूर्वश्चासौ निश्व - अभिनिः, ततः परो विट् तस्य, “ मयूरव्यंसक० " [३. १. ११६. ] इति पूर्व - परयोर्लोपः; अभेनिस्तेन 5 युक्त विट् इति वा ; न तु द्वन्द्वः, अभिश्च निश्व त्येवंरूपे द्वन्द्व ह्यभि - निशब्दयोः प्रत्येकमभिसम्बन्धः स्यात्, यथा- " उपान्वध्याङ वस:" [ २.२.२१. ] इत्यत्र । व्यवस्थितविभाबेयमिति - नात्र वाशब्दो विकल्पार्थो येन समकक्षतया द्वितीयासप्तम्यौ किं तर्हि ? प्रयोगव्यवस्थयेति ।। २. २. २२ ।।
काला-sध्व-भाव-देशं वाsकर्म चाकर्मणाम्
37
।। २. २. २३ ॥
10
कालो - मुहूर्तादिः, अध्वा - गन्तव्यं क्षेत्रं क्रोशादि, भावः - क्रिया गोदोहादिः, देशो - जनपद-ग्रामनदी - पर्वतादिः ; अकर्मकाणां धातूनां प्रयोगे कालादिराधारः कर्मसंज्ञो वा भवति, अकर्म च यत्रापि पक्षे कर्मसंज्ञा तत्राकर्मसंज्ञाऽपि वा भवतीत्यर्थः । कालः--मासमास्ते, मास प्रास्यते; संवत्सरं 15 स्वपिति, संवत्सरः सुप्यते; दिवसं शेते, दिवसः शय्यते; अध्वा - क्रोशं स्वपिति, क्रोशः सुप्यते; योजनमास्ते, योजनमास्यते ; भावः - गोदोहमास्ते, गोदोह आस्यते; प्रोदनपाकं शेते, ओदनपाकः शय्यते ; देश: - कुरून् प्रास्ते, कुरव आस्यन्ते ; ग्रामं वसति, ग्राम उष्यते । अविवक्षितकर्माणः सकर्मका अप्यकर्मकाः - मासं पचति, मासः पच्यते ; क्रोशमधीते, क्रोशोऽधीयते ; 20 प्रोदनपाकं पठति, श्रोदनपाकः पठ्यते ; कुरून् पठति, कुरवः पठ्यन्ते; पक्षेरात्रौ सुप्यते, रात्रौ नृत्तं च द्रक्ष्यसि, क्रोशे सुप्यते, गोदोहे आस्ते, ओदनपाके स्वपिति, पञ्चालेषु वसति, ग्रामे वसति, ग्रामे वासः, ग्रामे वासी, तथारात्रावधीतम्, दिवसे भुक्तम् । काला-ऽध्व-भाव - देशमिति किम् ? प्रासादे आस्ते, शय्यायां शेते । अकर्म चेति किम् ? मासमास्यत, क्रोशं सुप्यते, 2 गोदोहमासितः, इदं गोदोहमासितम्, गोदोहमास्यते, कुरून् सुप्यते; एषु "तत् साप्यानाप्या० [ ३. ३. २१. ] इति, “गत्यर्था-ऽकर्मक- पिब-भुजेः "