SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ [पा० २. सू० २४.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २२६ संज्ञायामित्यादि-कालाऽध्वापेक्षयेदमुक्त भावापेक्षया तु द्वितीयार्थमपि । यद्यत्यन्तसंयोगे 'काला-ऽध्व-भाव" [२.२.२३.] इति प्रवर्तते तहि "काला-ऽध्वनोाप्तौ" [२. २. ४२. ] इति क्व प्रवर्त्यतीत्याह-कालेति । “काला-ऽध्वनो:०" [ २. २. ४२. ] इति गुणद्रव्ययोगे, क्रियायोगे तु "काला-ऽध्व-भाव०" [२. २. २३.] इति प्रवर्तत इत्यनयोस्तन्मते विभागः ।। २. २. २३ ।। साधकतमं करणम् ॥२. २. २४ ॥ क्रियासिद्धौ यत् प्रकृष्टोपकारकत्वेनाव्यवधानेन विवक्षितं तत् साधकतम कारकं करणसंज्ञं भवति । काष्ठः स्थाल्यां पचति, दात्रेण लुनाति, दानेन भोगानाप्नोति; अस्य पाकादिक्रियासु ज्वलनादयोऽवान्तरव्यापाराः, विवक्षया च 'प्रकृष्टोपकारकत्वात् साधकतमत्वम् । तमग्रहणमपादानादिसंज्ञाविधौ10 तरतमयोगो नास्तीति ज्ञापनार्थम्, तेन-कुसूलात् पचति, गङ्गायां घोषः प्रतिवसतीति व्यवहितोपचरितयोरपि अपादानत्वमधिकरणत्वं च भवति । अस्य च कारकान्तरापेक्षया प्रकर्षो न स्वकक्षायाम्, तेनैकस्यां क्रियायामनेकमपि करणं भवति-नावा नदीस्रोतसा व्रजति, रथेन पथा दीपिकया याति, सूपेन सर्पिषा लवणेन पाणिनौदनं भुङ्क्ते । करणप्रदेशाः-"करणं च"15 [२. २. १६.] इत्यादयः ॥ २४ ॥ ___ न्या० स०-साधकतमं०। सिध्यतेणिगि “सिध्यतेरज्ञाने" [४. २. ११. ] इत्यात्वे रणके तमपि च सिद्धम् । प्रकृष्टोपकारकत्वेनेति-प्रकर्षणं प्रकृष्टं, तेनोपकारकम्, यद्वा प्रकृष्यते स्म प्रकृष्टः, ततः प्रकृष्टं च तदुपकारकं चेति कर्मधारयः । प्रकृष्टोपकारकत्वस्य को हेतुः ? अव्यवधानम्, यद्वा प्रकृष्टोपकारकत्वमपि किस्वरूपम्, अव्यवधान-20 मिति; अन्येषु मिलितेष्वपि लवनादिक्रिया दात्रादि विना न शक्यत इति का अव्यवहितं दात्रादि करणमपेक्ष्यत इति तस्य प्रकृष्टत्वम्, यत् प्रकृष्टोपकारकत्वेन स्थाल्यादिकमपि कर्ताऽव्यवहितमपेक्ष्यते तदपि करणमेव; ननु प्रकृष्टोपकारकत्वं कर्तुरप्यस्ति तस्यापि करणत्वं प्राप्नोति, नैवम्-तस्य स्वातन्त्र्यं लक्षणमस्ति। साधकतममिति-ननु सामग्रीत: क्रियासिद्धिस्तत्र कथं किञ्चित् साधकतमं किञ्चित् तद्विपरीतम् ? अन्वय-व्यतिरेकाभ्यां25 हि तत्र सर्वेषां सामान्यं साधारण्यमेवावगम्यते, तस्मात् क्रियासिद्धौ साधकतमस्य संभवो नास्तीति संभवं कल्पनया दर्शयति-विवक्षयेति-परमार्थवृत्त्या साधकतमत्वस्य सम्भवो नास्ति, यद्वयापारानन्तर्येण तु क्रियासिद्धिर्विवक्ष्यते तस्य कल्पनया साधकतमस्येयं संज्ञा । अस्येति-ज्वलनरूप उत्पातनिपातरूप: पुण्यरूपश्च यथाक्रमं प्रयोगत्रयेऽप्यवान्तरव्यापारः । गौरण-मुख्ययो० इति न्यायात् साधकतमस्यैव भविष्यति किं तमग्रहणेनेत्याह-तम-30
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy