________________
२२० ]
बृहद्वृत्तिलधुन्याससंवलिते
[पा० २. सू० १०-११.]
नाथः ॥ २. २. १० ॥
अणिक्कर्ता णाविति निवृत्तं पृथग्योगात्, आत्मनेपदविषयस्य नाथतेाप्यं कर्म वा भवति, आत्मनेपदविषयत्वं चास्याशिष्येवेति तत्रैवायं विधिः । सर्पिषो नाथते, सपि थते, सपि भूयादित्याशास्त इत्यर्थः; सर्पिषो नाथमानः, सपि थमानः सपिषो नाथिष्यमाणः, सपि थिष्यमाणः; संपिषो नाथ्यते, 5 सपि थ्यते । आत्मन इत्येव-पुत्रमुपनाथति पाठाय, उपयाचत . इत्यर्थः ।। १० ।।
न्या० स०--नाथः । कर्म वा भवतीति-“कर्तु ाप्यम्०" [२. २. ३.] इत्यनेन नित्यं प्राप्ते पक्षे निषेधः साध्यः। आत्मनेपदविषयत्वं चेति-कत्रपेक्षयेदमुक्त, भावकर्मणोस्तु सर्वधातूनामप्यात्मनेपदमस्त्येव । सर्पिषो नाथत इत्यादिषु सर्वेषु कर्माभावपक्षे 10 "शेषे" [ २. २. ८१. ] इत्यनेन षष्ठी ।। २. २. १० ।।
स्मृत्यर्थदयेशः ॥ २. २. ११ ॥
स्मरणार्थानां दयतेरीशश्च व्याप्यं कर्म वा भवति । मातुः स्मरति, मातरं स्मरति; मातुः स्मर्यते, माता स्मर्यते; मातुः स्मर्तव्यम्, माता स्मर्तव्या; मातुः स्मृतम्, माता स्मृता; मातुः सुस्मरम्, माता सुस्मरा; मातुः स्मृतः15 पुत्रः, माता स्मृता पुत्रेण ; एवं-मातुरध्येति, मातरमध्येति; मातुायति, मातरं ध्यायति; मातुरुत्कण्ठते, मातरमुत्कण्ठत इत्यादि। सर्पिषो दयते, सर्पिर्दयते; लोकानामीष्टे, लोकानीष्टे । ननु कर्माविवक्षायां पक्षे माषाणामश्नीयादित्यादिवत् शेषे षष्ठी सिद्धव, तत् किमनेन ? सत्यम्-किन्तु “षष्ठ्ययत्नाच्छेषे' [३. १. ७६.] इत्ययत्नजे शेषे षष्ठ्याः समासो वक्ष्यते,20 ततो मातुः स्मृतमित्यादौ समासो मा भूदित्यनेन प्रकारेण यत्नाच्छेषो विधीयते, नियमार्थं च, तेनैषां धातूनां कर्मैव शेषत्वेन विवक्ष्यते, न कारकान्तरं, तेन 'मात्रा स्मृतम्, मनसा स्मृतम्' इत्यादौ कर्तृ-करणयोः शेषविवक्षाभावात् षष्ठी न भवति । व्याप्यमित्येव-कथासु स्मरति, गुणैः स्मरति ।। ११ ।।
न्या० स०--स्मृत्यर्थः। सामान्येन चिन्तनार्थ उक्तोऽपि स्मृधातुरनुभूतस्यार्थस्य25 विशिष्टे चिन्तने वर्तमानो गृह्यते, एवंविधाश्चाध्येत्यादयोऽपि गृह्यन्ते, तेन मनसा परि