________________
[ पा० २. सू० १२ – १३.] श्री सिद्ध हेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २२१
कल्पितचिन्तनार्थानां समीक्षादीनां व्युदासः । लोकानामीष्टे इति - व्यापारेषु नियुङ्क्त स्वायत्तीकरोतीत्यर्थः ।। २. २. ११ ।।
कृगः प्रतियत्ने ॥ २. २. १२ ॥
पुनर्यत्नः- प्रतियत्नः, सतो गुणाऽऽधानायाऽपायपरिहाराय वा समीहा ; तस्मिन् वर्तमानस्य करोतेर्व्याप्यं वा कर्म भवति । एधोदकस्योपस्कुरुते, 5 एधोदकमुपस्कुरुते, शस्त्रपत्रस्योपस्कुरुते, शस्त्रपत्रमुपस्कुरुते । प्रतियत्न इति किम् कटं करोति । किम् ? व्याप्यमित्येव - एधोदकस्योपस्कुरुते बुद्धया, करणस्य मा भूत् ।। १२ ।।
न्या० स०-- कृगः प्र० ।
प्रतिशब्दः पुनरर्थेऽव्ययम्, “अव्ययं प्रवृद्धादिभि:" [ ३.१.४८. ] [ इति ] सः । सतो गुणाधानायेति - ननु यत्नद्वये सति पुनर्यत्न इत्युप- 10 युज्यते, तत् कथमत्र प्रतियत्नः ? उच्यते - प्रथमं तावदर्थस्यात्मलाभाय यत्नो भवति, लब्धात्मनो यो यत्नोऽधिकान् गुणानुत्पादयितुं परिपूर्णगुरणस्य वा तादवस्थ्यं रक्षितु ं सः प्रतियत्नः । कटं करोतीति-प्रभूतः सन् निर्वर्त्यः कटोऽत्र, यत्र तु वष्णिकया रक्त कटं करोति, तत्रापि विकार्यमेव कर्म न प्रतियत्नः उपपूर्वस्यैव करोतेः प्रतियत्नविषयत्वात्, "गन्धना० [ ३. ३. ७६. ] इत्यात्मनेपदं चोपपूर्वस्यैव, अत एव मूलोदाहणेष्वपि - 15 उपपूर्व एव दर्शितः । एधोदकस्येति - एधाश्वोदकानि च " श्रप्राणिपश्वादेः " [३. १. १३६.] इत्येकत्वम् ।। २. २. १२ ।।
33
रूजार्थस्याज्वरि-संतापेर्भावे कर्तरि ।। २. २.१३ ॥
रुजा-पीडा, तदर्थस्य धातोर्ज्वरि-संतापिवर्जितस्य व्याप्यं वा कर्मसंज्ञ भवति, भावे कर्तरि - भावश्व द्र जार्थस्य कर्ता भवति । चौरस्य रुजति, चौरं 20 रुजति रोग : ; अपथ्याशिनां रुज्यते रोगेण, अपथ्याशिनो रुज्यन्ते रोगेण ; चौरस्य रुग्णं, चौरो रुग्ण इत्यादि । चौरस्यामयति, चौरमामयति रोग: ; चौरस्य व्यथयति, चौरं व्यथयति रोगः ; चौरस्य पीडयति, चौरं पीडयति रोगः । रुजार्थस्येति किम् ? “एति जीवन्तमानन्दः " [ विष्णु पुराणे ] । ज्वरि-संतापिवर्जनं किम् ? प्राद्यूनं ज्वरयति, अंत्याशिनं संतापयति । कर्तरीति 25 किम् ? चैत्रं रुजत्यत्यशने वातः । भाव इति किम् ? मैत्रं रुजति श्लेष्मा, अत्र श्लेष्मा द्रव्यं, न भावः ; रोगो व्याधिरामयः शिरोऽर्तिरित्यादयो भावरूपाः कर्त्तार इति ।। १३ ।।