SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ [ पा० २. सू० . ] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २१६ [२. २. ८५.] इत्यनेन षष्ठीप्रवृत्तिः स्यान्न विकल्पस्तदा द्वितीये कर्मरिण "कर्मरिण कृतः” [२. २. ८३.] इत्यनेन नित्यं षष्ठी स्यात् कर्तृ' प्रधानदेवदत्तशब्दात् तु "द्विहेतोरस्त्र्यणकस्य वा” [२. २. ८७.] इत्यनेन प्राप्तकर्तृ षष्ठी विकल्पात् तृतीया; "वैकत्र द्वयोः " [ २. २. ८५. ] इत्यस्य " द्विहेतोर स्त्र्यरणकस्य वा " [२. २. ८८ . ] इत्यस्य च प्रवृत्त्युदाहरणंकारयिता कटस्य देवदत्तस्य, कटं देवदत्तस्य वेति गम्यमपि ज्ञेयम्, अत्र तु निष्प्रयोजन्नत्वान्न 5 दर्शितम् ।। २. २.८ ।। दृश्यभिवदोरात्मने । २. २. ९ ॥ दृशेरभिपूर्वस्य वदतेऽश्वाऽत्मनेपदविषयेऽरिक्कर्ता गौ कर्मसंज्ञो वा भवति । पश्यन्ति भृत्या राजानम्, तान् राजैवानुकूलाचरणेन प्रयुङ्क्त - दर्शयते राजा भृत्यान् भृत्यैर्वा ; अभिवदति गुरु शिष्यः, अभिवादयते गुरुः शिष्यं शिष्येण 10 वा; अथवा - अभिवदति गुरु शिष्यः तं मैत्रः प्रयुङ्क्ते - अभिवादयते गुरु शिष्यं शिष्येण वा मैत्रः; एवं दर्शयमानो राजा भृत्यान् भृत्यैर्वा, अभिवादयमानो गुरुः शिष्यं शिष्येण वा ; अथवा - प्रभिवादयमानो गुरु शिष्यं शिष्येण वा मैत्रः । आत्मन इति किम् ? पश्यति रूपतर्कः कार्षापणम्, दर्शयति रूपतर्क कार्षापणम्; अभिवदति गुरु शिष्यः, अभिवादयति गुरु शिष्येण 115 दृशेर्बोधार्थत्वेन नित्यं कर्मत्वे प्राप्ते, अभिवदेस्तु नित्यमप्राप्ते विकल्पः ; यदा अभिवदिर्न प्रणामार्थ:, किन्तु शब्दक्रियस्तदा - अभिवादयति गुरु शिष्यं मैत्र इति नित्यं प्राप्ते विभाषेति । णिजन्तस्यापि वदेरिंणगीच्छन्त्येके - अभिवादयति गुरुर्देवदत्तम्, तस्मिन्नाशिषं प्रयुक्त इत्यर्थः, अभिवादयते गुरु देवदत्तो गुरुणेति वा; आत्मन्याशिषं प्रयोजयतीत्यर्थः । रिगन्तस्यापीति कचित् प्रभिवदति 20 गुरु: स्वयमाशिषम्, तं शिष्यः प्रयुङ्क्त - अभिवादयति गुरुमाशिषं शिष्यः, तं मैत्रः प्रयुङ्क्ते - प्रभिवादयते गुरुमाशिषं शिष्यं शिष्येण वा मैत्रः । नामधातोरभिवादयतेरपीच्छत्यन्यः ।। ६ ।। न्या० स० - - दृश्य भि० । दर्शयते राजेति - अत्र “अणिक्कर्म० " [३. ३.८८.] इत्यात्मनेपदम् । अभिवादयते गुरु शिष्यं शिष्येण वा मैत्र इति - फलवत्त्वविवक्षाया-25 मात्मनेपदम् । अभिवादयति गुरुर्देवदत्तमित्यत्र " युजादेर्नवा" [३. ४. १८. ] विकल्पेन रिचि रिजभावपक्षे आत्मनेपदं चरितार्थं, वाक्यावस्थायां परस्मैपदमत्र । कश्चिदिति दुर्गसिंहमतम् । अन्य इति रत्नमतिः, तथा च स प्राह -सुब्धातुर्नामधातुरित्यर्थः ।। २. २. ६ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy