SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ [पा० १. सू० ७७.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ १८५ गर्धपत्वम्; धर्मभुत्, धर्मभुद्भयाम्, धर्मभुत्त्वम् । स्ध्वोः -गुहौ-निघोक्ष्यते, न्यघूढ्वम् ; दुह -धोक्ष्यते, अधुग्ध्वम्; बुध्-भोत्स्यते, बुभुत्सते, अभुद्ध्वम् । ग-ड-द-बादेरिति किम् ? कुत्, क्रोत्स्यति; जम्भेर्यङ्लुपि-अजंझप् अजंजप् । चतुर्थान्तस्येति किम् ? सुगण , दास्यति । एकस्वरस्येति किम् ? दाम लेढि क्विप्, दामलिहमिच्छति क्यन्, दामलिह्यति क्विप्-दामलिट् । स्ध्वोश्चेति । किम् ? धर्मबुधौ, बोद्धा। वर्णविधित्वेन स्थानिवद्भावो नास्तीति 'प्रबुद्ध, अबुद्धाः' इत्यत्र सिज्लुकि न भवति । धकारस्य वकारोपश्लिष्टस्य ग्रहणं किम् ? "दधि धारणे" इत्यस्य यङ्लुपि हौ धिभावे-दादद्धि । प्रत्यय इति किम् ? धाग् वस् द्वित्वम्, "श्नश्चाऽऽतः” [४. २. ६६.] इत्याकारलोपे "अदीर्घाद् विरामैकव्यञ्जने" [१. ३. ३२.] इति धकारस्य द्विर्भावे-दवः,10 दद्ध्वहे ।। ७७ ।। न्या० स०-ग-ड-द-बादे० । धातुरूपावयवस्येति-अत्र धातुरूपावयवस्येति विशेष्यम् अस्य च समासद्वयं-'पर्णधुड्' इत्यादौ सिसाधयिषिते धातुरूपश्चाऽसौ अवयवश्व 'गुह,' इत्यादिः, अवयवश्चावयव्यपेक्षयाभिधीयत इति ‘पर्णगुह,' इत्यादिसमुदायोऽवयवी; 'तुण्ढिब्' इत्यादौ तु साधयितुमिष्टे धातुरूपस्यावयव इति षष्ठीसमासः, धातुरूपं 'तुण्डिभ्'15 इत्यादि, तस्याऽवयवो 'डिम्' इत्यादिः; समासद्वयेऽपि च कुण्डमुम्भति-'कुण्डोब्' इति निरस्तम्, नहि 'कुण्डोब्' इत्यस्य समुदायस्य मध्ये 'डोब्' इति धातुरूपोऽवयवो नापि धातुरूपस्य अवयव इति आदिचतुर्थत्वाभावः; यद्वा धातुरूपस्यावयव इत्येवं षष्ठीसमास एव क्रियते, एवं च क्रियमाणे 'तुण्डिब्' इत्यादीनि याद्यन्तवदेकस्मिन् * इति न्यायनिरपेक्षाणि सिध्यन्ति, पर्णधुडित्यादीनि तु याद्यन्तवदेकस्मिन् इति न्यायेन; 20 अन्यच्च-स्ध्वौ प्रत्ययौ धातोरव्यभिचारिणाविति चानुकृष्टत्वेनानयोः साहचर्यात् पदान्त इत्यपि धातोरेवेति धातुरूपावयवस्येति, तस्यैव युक्तत्वादिति, रूपशब्दस्तु म्वाद्यभ्वादिधातुमात्रपरिग्रहार्थः। सकारादौ चेति-ध्वस्त्यादिप्रत्ययस्तदेकविभक्तिनिर्दिष्टत्वेन सकारोऽपि त्यादिरेवेति । तुण्डिभेति-"तुडुङ तोडने” अस्य "उदितः स्वरान्नोऽन्तः" [ ४. ४. ६८. ] इति नागमे "किलि-पिलि." [ उणा० ६०८. ] इति इप्रत्यये-तुण्डि:,25 साऽस्याऽस्तीति "वलि-वटि-तुर्भः" [७. २. १६. ] इति भः । न्यघूदवमिति-अद्यतन्या ध्वमि सकि “दुह-दिह०" [ ४. ३. ७४. ] इति तस्य लुकि अटि ढत्वे घत्वे “तवर्गस्य." [ १. ३. ६०. ] इति धस्य ढत्वे "ढस्तड्ढे" [ १. ३. ४२. ] इति ढलोपे रूपमिदम् । वर्णविधित्वेनेति-वर्णे सकाररूपे परतो विधिः । सिलुकि न भवतीति-ननु सिज्लोपात पूर्वमेव किमिति नादिचतुर्थत्वम् ? नैवम्-परस्मिन् सिच्लोपरूपे कार्ये विधेये आदि-30 चतुर्थत्वस्याऽसदधिकारविहितत्वेनाऽसत्त्वात् । प्रत्यय इति किमिति-ननु प्रत्ययाऽप्रत्यययोः प्रत्ययस्यैव० * इति न्यायेन प्रत्यये एव भविष्यति, किं प्रत्ययग्रहणेन ? सत्यन्
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy