SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ १८६ ] बृहद्वृत्ति-लघुन्याससंवलिते . . [पा० १. सू० ७८-७९.] 'द ध्वः, दद्ध्वहे' इत्यत्र यदा उभयोः स्थाने०* इति न्यायेन 'ध्व' इत्यस्य प्रकृतिप्रत्ययस्थाननिष्पन्नस्य प्रत्ययव्यपदेश: स्यात् तदा आदिचतुर्थत्वं भवेत्, सति तु प्रत्ययग्रहणे न्यायनिरपेक्षो यः प्रत्ययस्तस्मिन्नेव भवति नेतरस्मिन् प्रत्ययग्रहणसामर्थ्या ।। २. १. ७७ ॥ धागस्त-थोश्च ॥ २. १. ७८ ॥ दधातेश्चतुर्थान्तस्य दकारादेरादेर्दकारस्य त-थयोः स्ध्वोश्च प्रत्यययोः परयोश्चतुर्थो भवति । धत्तः, धत्ते, धत्थः, धत्थ, धत्से, धत्स्व, धद्ध्वे धद्ध्वम् ; अत्रासद्विधित्वाद् वचनसामर्थ्याद् वाऽऽतो लोपस्य स्वरादेशत्वेऽपि स्थानिवद्भावो । न भवति । गकारः किम् ? धयतेर्मा भूत्, ट्धेर्यङ्लुपि-दात्तः, दात्थः, दधातेरपि यङ्लुबन्तस्य मा भूत्, 10 *"तिवा शवाऽनुबन्धेन निर्दिष्टं यद्गणेन च । . एकस्वरनिमित्तं च पञ्चैतानि न यङ्लुपि ।।" इति न्यायात्-दात्तः, दात्थः । केचित् तु यङ्लुबन्तस्यापीच्छन्ति-धात्तः, धात्थः, धात्थ । तथोश्चेति किम् ? दध्वः, दध्मः । चतुर्थान्तस्येत्येव-दधाति, दधासि ।। ७८ ।। 15 न्या० स०--धागः। नन्वत्र चकारकररणं किमर्थं ? स्ध्वोः पूर्वेणैव सिद्धत्वात, सत्यम्-यङ लूपि "क्रियाव्यतिहार०" [ ३.३.२३. 1 इति पात्मनेपदे से 'व्यतिधात्से' इति स्यात्, कृते चकारे 'व्यतिदात्से' इत्येव, न त्वादेश्चतुर्थः तिवा शवा ०* इति न्यायात् ।। २. १.७८ ।। अधश्चतुर्थात् त-थोधः ॥ २. १. ७६ ।। 20 चतुर्थात् परयोस्तकार-थकारयोर्धारूपवजिताद् धातोविहितयोः स्थाने धकार आदेशो भवति । दोग्धा, दोग्धुम्, अदुग्ध, अदुग्धाः; लेढा, लेढुम्, अलीढ, अलीढाः; बोद्धा, बोद्धम्, अबुद्ध, अबुद्धाः; लब्धा, लब्धम्, अलब्ध, अलब्धाः । अध इति किम् ? दधातेर्यङ्लुबन्तधयतेश्च मा भूत्-धत्तः, धत्थः, दानः, दात्थः । केचित् तु यङ्लुबन्तधयतेरपीच्छन्ति-दाद्धः, दाद्ध । विहित-25 विशेषणं किम ? ज्ञानभुत्त्वम्, अत्र नामविहिते त्वे मा भूत् ।। ७६ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy