SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ १८४ ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० १. सू० ७६-७७.] निबंधात् । रथन्तरमिति-रथं-रथस्थं तरति-अतिक्रामति "भृ-वृजि०" [५. १. ११२.] इति खः, सामविशेषः । यातमिति-कर्मणि क्तः ।। २. १.७५ ।। घटस्तुतीयः ।। २. १. ७६ ॥ धुटां पदान्ते वर्तमानानां तृतीयो भवति । वाग्, वाग्भिः ; अज्, अज्भिः; षड्, षड्भिः; विद्युद्, विद्युद्भिः; ककुब्, ककुब्भिः; विड्, 5 विभिः । केचित् तु विसर्ग-जिह्वा मूलीययोरप्यलाक्षणिकयोस्तृतीयत्वं गत्वमिच्छन्तीति तन्मते-सुपूर्वाद् दुःखयतेर्दु खयतेर्वा क्विपि संयोगान्तलोपे'सुदुग्, सुदुग्भ्याम्' इति सिद्धम् । पदान्त इत्येव-वाचौ। कश्चरति, कष्टीकते, कस्तरतीत्यादिष्वादेशविधानसामर्थ्यात्, षष्ठ इत्यत्र तु “षष्ठी०" [२. २. १०८.] इति निर्देशान्न भवति ।। ७६ ।। 10 न्या० स०--धुटः । अभिरिति-अत्र संज्ञाशब्दत्वात् “च-जः क-गम्" [ २. १. ८६. ] इति न भवति । अलाक्षणिकयोरिति-"रः क-ख-प-फ०" [१. ३. ५.] इत्यादिलक्षणेनाकृतयोरित्यर्थः । दुःखयते-खयतेवेति-"सुख दुःखरण ०" इत्यत्र दु:खधातुविसर्गान्वितो मतान्तरेण जिह्वामूलोयान्वितश्च पठ्यते । संयोगान्तलोपे इति-ननु व्यञ्जननरन्तर्यं संयोगः, न च विसर्जनीय-जिह्वामूलीययोव्यंजनसंज्ञास्ति, तत् कथं ? 15 "पदस्य" [२. १. ८६.] इत्यन्तलोपः, सत्यम्-कस्यादि:-कादिरिति व्युत्पत्त्या 'अं-अः' इत्येतयोर्व्यञ्जनत्वे ततश्च "अं-अ:-क." [ १. १. १६. ] इति सूत्रे 'अं-अः' इति साहचर्यात् 'क' इत्यस्यापि व्यञ्जनत्वे संयोगान्तलोपो भवति, कण्ठ्यत्वाच्च स्थान्यासन्नो गकारः, न तु ) (प' इत्यनेन साहचर्याद् वर्णमात्रत्वनिबन्धनो व्यञ्जनत्वाभावः, कुत: ? 'अं-अ:-) (प-क' इत्यकरणात् । कश्चरतीति-यद्यप्यत्र कत्वस्य परेऽसत्त्वा :20 तृतीयस्याप्राप्तिस्तथापि मातश्वरतीत्यादिषु प्राप्नोतीत्याह-विधानसामर्थ्यादिति ।। २. १.७६ ।। गड-द-बादेश्चतुर्थान्तस्यैकस्वरस्यादेश्चतुर्थः स्वोश्च प्रत्यये ॥ २. १. ७७ ॥ ग-ड-द-बादेश्चतुर्थान्तस्यैकस्वरस्य धातुरूपावयवस्यादेश्चतुर्थ आसन्नो25 भवति, पदान्ते सकारादौ ध्वशब्दादौ च प्रत्यये परे । पर्णघुट, पर्णघुड्भ्याम्, पर्णघुट्त्वम् ; तुण्डिभमाचष्टे णौ क्विपि-तुण्ढिप्, तुण्ढिब्भ्याम्, तुण्ढिप्त्वम् ; गोधुक्, गोधुग्भ्याम्, गोधुक्त्वम् ; गर्दभमाचष्टे णौ क्विप्-गर्धप्, गर्धब्भ्याम्,
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy