SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ १७० ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० १. सू० ५१-५३.] पालत ननु "स्त्रिया:" [२. १. ५४. ] इत्यनेनापि इय् सिद्ध: किमत्रोदाहरणेन ? सत्यम्-तेन नाम्न इय् भवति, अनेन तु धातोः, अत एव यत्र क्लिबन्तः स्त्रीशब्दो भवति तत्रानेन "वाऽम्-शसि" [२. १. ५५.] इति विकल्पो बाध्यते ।। २. १. ५० ।। इणः ॥ २. १. ५१ ॥ इणो धातोः स्वरादौ प्रत्यये परे 'इय्' इत्ययमादेशो भवति, यत्वाप-5 वादः । ईयतुः, ईयुः । कथं यन्ति, यन्तु ? परत्वेन “हि वणोरप्विति व्यौ' [४. ३. १५.] इति यत्वस्यैव भावात् । 'अयनम् अायकः' इत्यत्रापि परत्वाद् गुण-वृद्धी एव ।। ५१ ॥ न्या० स०-इणः। अत्र व्यभिचाराभावेऽपि धातोरित्युत्तरार्थमनुवर्तनीयम् । यत्वापवाद इति-“योऽनेकस्वरस्य" [ २. १. ५६. ] इति प्राप्तस्य । परत्वेनेति-शितीति 10 विशेषविहितत्वात प्रकृष्टत्वेनेत्यर्थः, परत्वं त स्पर्धाभावान्न घटते । परत्वादिति पूर्वेऽपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान् इति “योऽनेकस्वरस्य" [२. १. ५६.] इति प्राप्तं यत्वं बाधते, न तु गुण-वृद्धी । ईयतुरित्यत्र द्वित्वे कृते वार्णात् प्राकृतं . बलीयः इति न्यायात् प्रथममियादेशस्ततो दीर्घः ।। २. १. ५१ ।। 15 संयोगात् ॥ २. १. ५२ ॥ धातुसंबन्धिन इवर्णस्योवर्णस्य च धातुसम्बन्धिन एव संयोगात् परस्य स्वरादौ प्रत्यये परे इयुवावादेशौ य्वोरपवादौ भवतः । यवक्रियौ, यवक्रियः; कटप्रुवौ, कटप्रुवः; शिश्रियतुः, शिश्रियुः । धातुना संयोगस्य विशेषणादिह न भवति-उन्न्यौ, उन्न्यः,; सकृल्ल्वौ, सकृल्ल्वः ।। ५२ ।। न्या० स०--संयोगात् । य्वोरपवादाविति-"क्विब्वृत्तेः०" [२. १. ५८. ]20 "योऽनेकस्वरस्य" [ २. १. ५६. ] इति विहितयोः ।। २. १. ५२ ॥ भू-नोः ॥ २. १. ५३ ॥ 'भ्रू श्नु' इत्येतयोरुवर्णस्य संयोगात् परस्य स्वरादौ प्रत्यये परे उवादेशो भवति । भ्र वौ, भ्र वः, क्यन्क्विबन्तस्य "धातोरिवर्णोवर्णस्य." [२. १. ५०.] इत्यादिनैवोवादेशः । प्राप्नुवन्ति, राध्नुवन्ति, तक्ष्ण वन्ति 125
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy