SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ [पा० १. सू० ४८-५०.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ १६६ न्यासकारव्याख्या ।। २. १. ४७ ॥ प्रागिनात् ।। २. १. ४८ ॥ अदसो मात् परस्य वर्णमात्रस्येनादेशात् प्रागुवर्णो भवति, अन्वित्यस्यापवादोऽयम् । अमुना पुसा कुलेन वा। इनादिति किम् ? अमुया स्त्रिया ।। ४८ ॥ बहुवेरी ॥ २. १. ४६ ॥ . बहुष्वर्थेषु वर्तमानस्यादसो मकारात् परस्यैकारस्य स्थाने ईकार आदेशो भवति । अमी, अमीभिः, अमीभ्यः २, अमीषाम्, अमीषु । बहुष्विति किम् ? अम् कन्ये, अम् कुले। एरिति किम् ? अमूः कन्याः , अमून् नरान् । मादित्येव-अमुके, अमुकेभ्यः ।। ४६ ।। 10 न्या० स०-बहुष्वेरी०। अमुकेभ्यः अत्राकः तन्मध्यपतितस्य तद्ग्रहणेन ग्रहणेऽपि उकारेण व्यवधानाद् अनेन ईत्वाभावः ।। २. १. ४६ ॥ धातोरिवर्णोवर्णस्येयुव स्वरे प्रत्यये ॥ २. १. ५० ॥ धातुसंबन्धिन इवर्णस्योवर्णस्य च स्थाने स्वरादौ प्रत्यये परे यथासंख्यम् 'इय् उत्' इत्येतावादेशौ भवतः । नियौ, नियः; लुवौ, लुवः; 15 अधीयाते, अधोयते; लुलुवतुः, लुलुवुः; नुनुवतुः, नुनुवुः; स्वमिच्छति कयन् क्विप्-स्वीः, स्वियौ, स्वियः; एवं-स्त्रियौ, स्त्रियः; अधीयन् । धातोरिति किम् ? लक्ष्म्याः । इवर्णोवर्णस्येति किम् ? म्लायति, वाचः । स्वर इति किम् ? नी:, लूः । प्रत्यय इति किम् ? न्यर्थः, ल्वर्थः । इयुभ्यां गुण-वृद्धी परत्वाद् भवतः-नयनम्, लवनम् ; नायकः, लावकः ।। ५० ।। न्या० स०--धातेरिवर्णो०। युवर्णस्येति कर्त्तव्ये यदि वर्णोवर्णस्येति कृतं तद् विचित्रा सूत्रकृतिरिति दर्शनार्थम् । प्रत्यये इति-प्रत्ययाप्रत्यययो:०% इति न्यायेन प्रत्यय एव भविष्यति, किं तद्ग्रहणेन ? सत्यम्-ॐन्यायानां स्थविरयष्टि* न्यायेन प्रवृत्तेः । नियो, नियः, इति-ननु गौरणमुख्ययो:०* इति मुख्यस्यैवेयुवौ प्राप्नुतः, नैवम्"स्यादौ वः" [२. १. ५७.] इति सूत्रस्यैतदपवादत्वाद् गौणस्यापि भवति । स्त्रियाविति-25 20
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy