________________
१६८ ]
बृहवृत्ति-लघुन्याससंवलिते
[पा० १. सू० ४७.]
सत्यदस इकारान्तत्वेन अवान्तत्वाभावादप्राप्तेऽयं योगः। प्रमुमुयङिति-'समुदाये प्रवृत्ता अपि शब्दा अवयवेऽपि वर्तन्ते' इति मात्राशब्दोऽर्धमात्रायामपि, तेन अमुमुयङित्यत्र अर्द्धमात्रिकस्यापि र: स्थाने एकमात्रिक उकारादेशो भवति । अत्र वा व्यवस्थितविभाषार्थों न विकल्पार्थः तेन क्वापि कथञ्चिद् विकल्पः प्रवर्तते, यदि तु विकल्पार्थः स्यात् तदा प्रथममेव प्रयोगद्वयं स्यात, तत्त्वनेनैव विकल्पस्य चरितार्थत्वात् । अदसो 5 दकारस्येति-अनेरागमत्वाददस्ग्रहणेन ग्रहणाददसो दकारस्येत्युक्तऽपि अदसोऽद्रेश्च दस्य मः सिद्धः । दकारस्येत्यत्र एकवचनान्तत्वादेकस्यैव दस्य म इति तु न वाच्यम्, दजात्याश्रयणात् । चातूरूप्यमिति-चत्वारि रूपाण्येव, स्वार्थे भेषजादित्वात् टयण , चतुर्णां रूपाणां भावः “पतिराजान्त०" [ ७. १. ६०.] इत्यनेन वा ।। २. १. ४६ ।।
मादुवर्णोऽनु ॥२. १. ४७ ॥
10 अंदसः संबन्धिनो मकारात् परस्य वर्णमात्रस्योवर्ण आदेशो भवति, अनु-पश्चात् कार्यान्तरेभ्यः; आसन्नत्वाद् मात्रिकस्य स्थाने मात्रिकः, द्विमात्रस्य द्विमात्रः, त्रिमात्रस्य त्रिमात्रः । अमुम्, अमू, अमू३ इति; "प्रश्ने च प्रतिपदम्" [७. ४. ६८.] इति प्लुतः । अमुमुयङ्, अमुमुईचः, अदमुईचः, अदमुईचा; "अदोमु-मी" [१. २. ३५.] इति संधिप्रतिषेधः । अन्विति किमर्थम् ? 15 'अमुष्मै, अमुष्मात्, अमुष्य, अमुष्मिन्, अमूषाम् ; अमुया, अमुयोः,' इत्यादिषु स्मैप्रभृतिकार्येषु कृतेषूवर्णो यथा स्यादित्येवमर्थम् ।। ४७ ।।
न्या० स०--मादुव०। ननु पञ्चम्या निर्देशाद् उवर्णः प्रत्ययः कथं न भवति ?, सत्यम्-"अदो मु-मी" [ १. २. ३५. ] इति सूत्रनिर्देशाद् वर्णमात्रस्य स्थानित्वं लब्धमिति अनु-पश्चादिति-अत्रानुना पूर्व संबन्धः, तस्य च पश्चादर्थत्वात्' "प्रभृत्यन्यार्थ०"20 [२. २. ७५. ] इति दिग्योगलक्षणा पञ्चमी, यदि तु पूर्व पश्चादित्यनेन योगो विवक्ष्यते तदा “रिरिष्टात्०" [२. २. ८२.] इत्यनेन 'कार्यान्तरेभ्यः' इत्यत्र षष्ठी स्यात्, पश्चादिति अखण्डमव्ययं वा । अथात्रानुग्रहणं किमर्थं ? यतो यदि कार्यान्तरात् प्रागुवर्णो भवति तदा इनादेवेत्युत्तरसूत्रे नियमार्थे व्याख्यायमानेऽन्वर्थस्य लब्धत्वात्, सत्यम्-एवमपि नियमाशङ्का स्यात्, इनादेशस्तावत् प्रत्ययादेशस्ततोऽन्यस्मादपि प्रत्ययादेशादेव पश्चादुवर्णः प्रकृत्या-25 देशात् परत्वात् पूर्वमपि भवेत्, तथा चामुया अमुयोरित्यादयो न सिध्येयुः । अमुष्मै इतिनन्वत्र "ङित्यदिति" [ १. ४. २३. ] इति प्रोत्वं स्मैपादेशे कृते कथं न भवति ? उच्यतेअदितीत्यत्र नत्रः पर्युदासाश्रयणात्, स हि सदृशग्राही, ततो यत्र साक्षात् स्वरोऽग्रे भवति तव पूर्वस्योकारस्य प्रोकारस्तत्रादिति साक्षात् स्वरवर्जनात, इति कक्कलस्य व्याख्या । तथाऽदितीति विषयसप्तम्यां प्रकृतेरपि विशेषणाद् दकारात् एति-उत्पद्यते यस्तद्विषय-30 वर्जनान्मकारस्य तदादेशत्वेन दकारत्वात्, अत एव 'दैदास्' इत्यत्र ऐदिति न कृतमिति