SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १५२ ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० १. सू० २२-२३.] ततः समसंख्या द्वितीया-चतुर्थी-षष्ठीरूपा विभक्तयो युगशब्देनोच्यन्त इति । धर्मो वो रक्षत्विति-अत्र पदादेश: पदवदिति 'वस्' इत्यस्य पदत्वे “सो रुः" [ २. १. ७२. ] इति रुत्वं बभूव । तथा “शसो नः" [२. १. १०.] "शेषे लुक" [ २. १. ८. ] इत्यादीनि बाधित्वा नित्यत्वाद् निरवकाशत्वाच्च वस्नसावेव भवत इति । एकवाक्य इति-एक च तद् वाक्यं चेति “पूर्वकालैक०" [ ३. १. ६०.] इत्यनेन समासे एकस्य पूर्वनिपातः, ततो 5 विशेषणस्य व्यवच्छेदकत्वात् * सर्वं वाक्यं सावधारणं भवति * इति न्यायाच्च एकस्मिन् वाक्य एव भवतीति न तु पदे, अतियुष्मान् पश्यतीत्यादौ तु यथैकस्मिन् वाक्ये तथा एक विभक्तयपेक्षया एकस्मिन् पदेऽपि युष्मदस्मदी स्त इति, तथा एकस्मिन्नेव वाक्य इत्यवधारणाद् यदि पदं युष्मदस्मदो चैकस्मिन्न व वाक्ये भवतो न तु वाक्यान्तरे तदा वस्नसौ भवतः । सामर्थ्याभावादेवेति-परस्परव्यपेक्षालक्षणसम्बन्धाभावादेवेत्यर्थः । किमेकवाक्य-10. ग्रहणेनेति-किं सविशेषणेन वाक्यग्रहणेन ? वाक्यग्रहणमेव पदव्यवच्छेदाय कत्तु युक्त किमेकग्रहणेनेत्यर्थः । युक्तयुक्तादिति-युक्त न युष्मदस्मत्संबद्धन पित्रादिना यत् युक्तमितिस्मेत्यादि तस्मादित्यर्थः । इति-स्मेत्यादि-अत्रेतिस्मेत्यादि पदं साक्षात यष्मदादिकं नापेक्षते. कि तर्हि पित्रादिकमिति एकवाक्यग्रहणात् सामर्थ्याभावेऽपि एकवाक्ये पदात् परस्य युष्मदादेरादेश: सिद्धः । तथा 'युग्बहुत्वे' इत्यप्युक्त द्वितीया-चतुर्थी-षष्ठी बहुवचनानि 15 लब्धानि, विभक्तिग्रहणं तूत्तरार्थमिह च क्लिष्टतापरिहारार्थमिति ।। २१ ।। दिवत्वे वाम्नौ ॥ २. १. २२ ॥ पदात् परयोर्युष्मदस्मदोद्वित्व विषयया युग्विभक्त्या सह यथासंख्यं वाम्नावित्येतावादेशौ वा भवतः, तच्चेत् पदं युष्मदस्मदी चैकवाक्ये भवतः ।। धर्मो वां रक्षतु, धर्मो नौ रक्षतु; धर्मो युवां रक्षतु, धर्म आवां रक्षतु; शीलें 20 वां दीयते, शीलं नौ दीयते; शीलं युवाभ्यां दीयते, शीलमावाभ्यां दीयते; ज्ञानं वां स्वम्, ज्ञानं नौ स्वम् ; ज्ञानं युवयोः स्वम्, ज्ञानमावयोः स्वम् । युविभक्त्येत्येव-ग्रामे युष्मत्पुत्रः, नगरेऽस्मत्पुत्रः । पदादित्येव-युवां धर्मो रक्षतु, आवां धर्मो रक्षतु । एकवाक्य इत्येव-प्रोदनं पचत, युवयोर्भविष्यति, आवयोर्भविष्यति ।। २२ ।। 25 न्या० स०-द्वित्वे इत्यादि । द्वित्व इति भावप्रत्ययान्तेन संख्या निदिश्यते, संख्यायां च विभक्तिर्वर्त्तते न युष्मदस्मदी द्रव्यवृत्तित्वात् तयोरिति द्वित्व इति विभक्त रेव विशेषणमित्याह-द्वित्वविषययेति ।। २२ ॥ डे- सा ते-मे ॥२. १. २३ ॥ 'ते-मे' इति लुप्तद्विवचनान्तं पदम्, पदात् परयोर्युष्मदस्मदो 'ङे ङस्'30
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy