SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ [पा० १. सू० २१.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ १५१ पदाद् युग्विभक्त्यैकवाक्ये वस्-नसौ बहुत्वे ॥२.१.२१॥ द्वितीया चतुर्थी षष्ठी च युग्विभक्तिः, तया बहुत्वविषयया सह पदात् परयोर्युष्मदस्मदोर्यथासंख्यं 'वस्नस्' इत्येतावादेशौ वा भवतः, तच्चेत् पदं युष्मदस्मदी चैकवाक्ये भवतः, अन्वादेशे नित्यं विधास्यमानत्वादिह विकल्पो लभ्यते, एवमुत्तरसूत्रत्रयेऽपि । धर्मो वो. रक्षतु, धर्मो नो रक्षतु; धर्मो युष्मान् । रक्षतु, धर्मोऽस्मान् रक्षतु; तपो वो दीयते, तपो नो दीयते; तपो युष्मभ्यं दीयते, तपोऽस्मभ्यं दीयते; शीलं वः स्वम्, शीलं नः स्वम् ; शीलं युष्माकं स्वम्, शीलमस्माकं स्वम् । पदादिति किम् ? युष्मान् धर्मो रक्षतु, अस्मान् धर्मो रक्षतु । युग्विभक्त्येति किम् ? ज्ञाने यूयं तिष्ठत, शीले वयं स्थास्यामः; ज्ञाने युष्माभिः स्थितम्, शीलेऽस्माभिः स्थितम् ; ज्ञानं युष्मदागतम्, शील-10 मस्मदागतम् ; ज्ञानं युष्मासु तिष्ठति, शीलमस्मास्वायतते; ग्रामे युष्मत्पुत्रः, नगरेऽस्मत्पुत्रः; इति युष्मदुपाध्यायो ब्रूते, इत्यस्मदाचार्योऽनुशास्ति । एकवाक्य इति किम् ? एकस्मिन् पदे निमित्त-निमित्तिनो वे मा भूत्-अतियुष्मान् पश्यति, अत्यस्मान् पश्यति; वाक्यान्तरे च मा भूत्-प्रोदनं पचत, युष्माकं भविष्यति ; पटं वयत, अस्माकं भविष्यति । ननु च वाक्यान्तरस्थात्15 पदात् परयोर्युष्मदस्मदोः सामर्थ्याभावादेव वस्-नसादयो न भविष्यन्ति, किमेकवाक्यग्र हरणेन ? नैवं शङ्कयम्-युक्तयुक्तादपि पदादसमर्थत्वात् न प्राप्नुवन्ति-इति स्म नः पिता कथयति, इति वः श्रेयसी ब्रवीमि, इति मे माताऽवोचत्, शालीनां ते प्रोदनं दास्यामि; अत्र हि युष्मदस्मदी पित्रादिभिर्युक्ते न पित्रादियुक्त रिति-स्मादिभिरिति वस्नसादयो न स्युः, अतः पारम्पर्येणापि20 युक्तादेकवाक्यस्थात् पदात् परयोर्युष्मस्मदोर्वस्नसादयो भवन्त्वित्येकवाक्यर हणमर्थवत् । बहुत्व इति किम् ? धर्मो युवां रक्षतु, धर्मस्त्वां रक्षतु । स्याद्यधिकारे विभक्तिग्रहणं युकस्यादिवचन निवृत्त्यर्थम्, तेन ज्ञाने युवां तिष्ठतः, शीले आवां तिष्ठाव इत्यत्रोत्तरेण वाम्-नावादेशौ न भवतः ।। २१ ।। न्या० स०-पदादित्यादि-पद्यते गम्यते कर्तृकर्मविशिष्टोऽर्थोऽनेनेति पदम् 125 विभक्तया सह समानाधिकरणार्थ युनक्तोति युङ कर्तरि क्विप्, यद्वा योजनं युङ ० सममविषम संख्यास्थानं युग्ममिति यत् संख्यायते, तेन परिच्छिन्न वस्त्रमपि युगित्युच्यते,
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy