________________
१५० ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० १. सू० १६-२०.]
सम्बन्ध्येव गृह्यत इति पारिशेष्यादिह चतुर्थीभ्यसो ग्रहणमित्याह-चतुर्थीबहुवचनस्येति ॥१८॥
सेश्चाद् ॥२. १. १६ ॥
युष्मदस्मद्भ्यां परस्य स्वसम्बन्धिनोऽन्यसम्बन्धिनो वा उसेश्चकारात् तत्सहचरितस्य भ्यसः स्थाने 'अद्' इत्ययमादेशो भवति । त्वद्, मद्; त्वां 5 युवां युष्मान् वाऽतिक्रान्तात्-अतित्वद्, अतिमद्; अतियुवद्, अत्यावद् ; अतियुष्मद्, अत्यस्मद् । भ्यस्-युष्मद्, अस्मद् ; त्वां युवां युष्मान् वाऽतिक्रान्तेभ्यः-अतित्वद्, अतिमद्; अतियुवद्, अत्यावद् ; अतियुष्मद्, अत्यस्मद् । पञ्चमीभ्यसो ग्रहणाच्चतुर्थीभ्यसो न भवति-युष्मभ्यम्, अस्मभ्यम् ।। १६ ।।
न्या० स०--ङसेरित्यादि-चकारेण भ्यसोऽनुकर्षणेऽपि भ्यसो उसेश्चैकवचनानन्त-10 निर्देशन द्विवचनानन्तनिर्दिष्टाभ्यां युष्मदस्मद्भ्यां सह वैषम्याद् यथासंख्याभाव इति ॥ १६ ।।
आम आकम् ॥२. १. २० ॥
'युष्मद् अस्मद्' इत्येताभ्यां परस्य स्वसम्बन्धिनोऽन्यसम्बन्धिनो वाऽऽमः स्थाने 'प्राकम्' इत्यादेशो भवति । युष्माकम्, अस्माकम् ; प्रिययुष्माकम्,15 प्रियास्माकम् ; त्वां युवां युष्मान् वाऽतिक्रान्तानाम्-अतित्वाकम्, अतिमाकम् ; अतियुवाकम्, अत्यावाकम्; अतियुष्माकम्, अत्यस्माकम् ; आकमित्याकारो ण्यन्तार्थम्-युष्मानाचक्षाणानां णौ क्विपि-युष्माकम्, अस्माकम; । केचित् तु तत्सम्बन्धिन एवाऽऽमः प्राकमादेशमिच्छन्ति, तथाऽम्प्रत्यये दकारस्य यत्वमपीच्छन्ति, तन्मते-प्रिया यूयं येषां तेषां प्रिययुष्मयाम्, प्रियास्मयाम् ; 20 एवम्-अतियुष्मयाम्, अत्यस्मयाम् ।। २० ।।
न्या० स०--प्राम इत्यादि। प्रामः कमिति कृते "युष्मदस्मदोः" [२. १. ६.] इत्यात्वे कृते युष्माकमित्यादि सिध्यति, किमाकारकरणेनेत्याह-आकमित्यादि। केचित् त्विति-पाणिनिसूत्रानुसारिणः, ते हि “साम आकम्" [पा० ७. १. ३३. ] इति पठन्तः कृतसामादेशस्याम प्राकमिच्छन्ति, स च "अवर्णस्यामः" [ १. ४. १५. ] इति तत्सम्बन्धिन25 एवेति ॥ २० ॥