SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ [पा० १. सू० १७-१८.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ १४६ न्या० स०-अमौ म इति-प्रौश्च औश्च आवौ "स्यादावसंख्येयः" इत्येक शेषः, ततोऽम् च आवौ च अमौ, तस्य 'अमौ' लुप्तषष्ठयेकवचनान्तं पदम्, एकशेषाभावे तु अमा साहचर्याद् द्वितीयासत्कस्यैव ग्रहणं स्यात्। ननु अम्ग्रहणं किमर्थम् ? यावता त्वामिति निष्पाद्यन्, तच्च युष्मदोऽमि निमित्त त्वादेशे "शेषे लुक्" [२. १.८.] इति दस्य लुकि “समानादमोऽतः" [ १. ४. ४६. ] इत्यमोऽस्य लुकि "युष्मदस्मदोः" [ २. १. ६. ] 5 इत्यन्तस्यात्वे च सिद्धम्, नैवम्-अन्तरङ्गऽन्तस्यात्वे कार्य बहिरङ्गोऽकारस्य लुगसिद्ध इति ।। १६ ।। शसो नः ॥ २. १. १७ ॥ युष्मदस्मद्भयां परस्य तत्सम्बन्धिनोऽन्यसम्बन्धिनो वा शसः स्थाने 'न' इत्ययमादेशो भवति, अकार उच्चारणार्थः । युष्मान्, अस्मान्; प्रिययुष्मान्,10 प्रियास्मान् ; प्रियस्त्वं येषां तान् प्रियत्वान्, प्रियमान् ; प्रियौ युवां येषां तान् प्रिययुवान्, प्रियावान् ।। १७ ।। न्या० स०-शसो न इति । ननु युष्मानित्यादौ द्वयं प्राप्नोति- "शेषे." · [ २. १. ८. ] इत्यनेनान्तलोपोऽनेन नकारश्च, तत्र कृताकृतप्रसङ्गित्वेन०* नकारस्य नित्यत्वाल्लोपस्य च कृते नकारे शेषत्वाभावादप्रसङ्गित्वेनानित्यत्वात् पूर्वं नकार एव15 भवतीति; यद्येवं किमनेन ? "शसोऽता." [१. ४. ४६. ] इत्यनेनैव सिद्धत्वात्, नैवम्अलिङ्ग युष्मदस्मदी इति पुस्त्वाभावान्नकारो न सिध्यतीति वचनम् ; बहुव्रीह्यादावभ्युपगमे वा लिङ्गस्य स्त्री-नपुंसकार्थम्-प्रिययुष्मान् ब्राह्मणी:, प्रिययुष्मान् कुलानीत्यादि ।। १७ ।। 20 अभ्यं भ्यसा ॥ २. १. १८ ॥ युष्मदस्मद्भ्यां परस्य स्वसम्बन्धिनोऽन्यसम्बन्धिनो वा भ्यसश्चतुर्थीबहुवचनस्य स्थानेऽभ्यमादेशो भवति । युष्मभ्यम्, अस्मभ्यं दीयते; प्रिययुष्मभ्यम् प्रियास्मभ्यम् ; त्वामतिक्रान्तेभ्यः-अतित्वभ्यम्, अतिमभ्यम् ; युवामतिक्रान्तेभ्य:-अतियुवभ्यम्, अत्यावभ्यम् । अकारादिकरणमात्वबाधनार्थम् ।। १८ ।। न्या० स०-अभ्यमित्यादि । कार्यिणः प्रथमं निर्देशे प्राप्ते कार्यस्य प्रथममुपादानं प्रत्यासत्तिसूचनार्थम्, पाठापेक्षया च चतुर्थ्यव प्रत्यासन्नति तस्या एवादेशः, यद्वा "ङसेश्चाद्" [ २. १. १६. ] इत्यत्र चकारो भ्यसोऽनुकर्षणार्थः, स च ङसिसाहचर्यात् पञ्चमी 25
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy