SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ [पा० ४. सू० ८४-८५.] श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ १३१ क्रियताम् . किमैत्करणेन ? न-"अनेकवर्ण०" [ ७. ४. १०७. ] इति सकलस्यापि स्यात् । न च निर्दिश्यमानानां०% इति इत एवायमिति वाच्यम्, यती विभक्तिसामान्येन सखिशब्दस्य विशेष्यत्वेन इकारस्य विशेषणत्वेन च निर्दिश्यमानत्वाभावात् । प्रशाविति-अथ शौ सति ॐादेशादागमः इति न्यायाद् ऐत्वात् प्रथममेव नागमेन भाव्यम्, ततस्तेन व्यवधानादैकारो न भविष्यतीति, न च द्वयोरप्यन्यत्र सावकाशत्वादैकारः स्यादिति 5 वाच्यम्, कृतेऽप्यकारे "क्लीबे" [ २. ४. ६७. ] इति ह्रस्वत्वे ततो नागमे दीर्घत्वे च न कश्चिद् दोषः, नैव न्-प्रसिद्ध बहिरङ्गम् *. इति घुनिमित्तस्यैकारस्य बहिरङ्गत्वाद् ह्रस्वत्वे कर्तव्येऽसिद्धत्वात् । ननु भवत्येवं तथापि कृताकृतप्रसङ्गित्वेन नित्यत्वात् पूर्व नागम इति धुव्यवधायको भविष्यति, नैवम् -कृतेऽपि नागमे प्रकृतिभक्तत्वेनाव्यवधायकत्वाद् ऐकारोऽपि नित्य इति द्वयोनित्ययोः परत्वादैकार एव स्यादिति शिप्रतिषेधः ।10 अतिसखोनि पूजितः सखा येषु कुलेषु, यद्वा सखिशब्दो नपुसकोऽपि लक्ष्येषु दृश्यते ।।३।। ऋदुशनस्-पुरुदंशोsनेहसश्च सेर्डा ॥ १. ४. ८४ ॥ ऋकारान्ताद् 'उशनस्, पुरुदंशस्, अनेहस्' इत्येतेभ्यः सख्युरितश्च परस्य शेषस्य सेः स्थाने 'डा' इत्ययमादेशो भवति । पिता, अतिपिता, कर्ता, उशना, पुरुदंशा, अनेहा, सखा, अत्युशना, प्रियपुरुदंशा, अत्यनेहा, किंसखा,15 सुसखा, प्रियसखा। सख्युरित इत्येव ? इयं सखी, सखीयते: क्विप्-सखीः । सेरिति किम् ? उशनसौ, सखायौ । शेषस्येत्येव ? हे कर्तः !, हे उशनन् !, हे उशन ! , हे उशनः ? हे पुरुदंशः ! , हे अनेहः !, हे सखे ! ॥ ८४ ।। न्या० स०-ऋदुशनसित्यादि-ऋकारान्तस्य "अङौं च" [ १. ४. ३६. ] इत्यरि ‘त्रयाणां “दीर्घड्याब्०" [ १. ४. ४५. ] इति सिलोपे “अभ्वादे०" [ १. ४. ६०. ]20 इति दीर्घत्वे “सो रुः" [२. १. ७२. ] इति रुत्वे च, सखिशब्दस्य तु ऐत्वे प्राप्ते डाऽरम्भः । हे अनेहः ! इत्यत्र “न सन्धिः" [ १. ३. ५२. ] इति सन्धिनिषेधः ॥ ८४ ।। नि दीर्घः ॥ १. ४. ८५॥ शेषे धुटि परे यो नकारस्तस्मिन् परे पूर्वस्य स्वरस्य दी| भवति । राजा, राजानौ, राजानः, राजानम्, राजानौ; सीमा, सीमानौ, सीमानः,25 सीमानम्, सीमानौ; सामानि, दामानि, लोमानि, वनानि, धनानि, दधीनि, मधूनि, कतृ णि, हतृ रिण । नीति किम् ? दृषद्, दृषदौ, दृषदः । *स्वरस्य ह्रस्व-दीर्घ-प्लुताः इति स ग्घ्नयतेः क्विप्-'स्र क्, स्र ग्, स्र ग्घ्नौ, स्र ग्घ्नः'
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy