________________
१३० ]
बृहवृत्ति-लघुन्याससंवलिते
[पा० ४. सू० ८२-८३.]
चत्वः !, हे प्रियचत्वः ! । आमन्त्र्य इत्येव ? अनड्वान्, प्रियचत्वाः । सावित्येव ? हे अनड्वाहौ !, हे प्रियचत्वारः ।। ८१ ।।
न्या० स०-उतोऽनडुच्चेत्यादि-उत्तरत्र शेषग्रहणादामन्त्र्यसिरेवानुवर्तते, न तु विशेषनिमित्तानुपादानाद् धुटीति । सत्यपि नामग्रहणे लिङ्गविशिष्टस्य०% इति 'हे अनडुहि !' इत्यत्र गौरादिनिपातनाद् वत्वाभावः, एवमुत्तरत्रापि। चतुःशब्दस्यार्थ- 5 प्राधान्येन एकामन्त्रणासम्भवे समासे उपसर्जनीभूत एवोदाह्रियते ।। ८१ ।।
वा शेषे ॥ १. ४. ८२॥
आमन्त्र्यार्थविहितात् सेरन्यो घुट् इह शेषः, तस्मिन् परे 'अनडुह , चतुर्' इत्येतयोरुकारस्य 'वा' इत्याकारान्तो वकार आदेशो भवति । अनड्वान्, अनड्वाहौ, अनड्वाहः, अनड्वाहम्, अनड्वाहौ, प्रियानड्वांहि10 कुलानि; प्रियचत्वाः, प्रियचत्वारी, प्रियचत्वारः, प्रियचत्वारम्, प्रियचत्वारो, चत्वारि, चत्वारः । शेष इति किम् ? हे प्रियानड्वन् !, हे प्रियचत्वः ! । घुटोत्येव ? अनडुहः पश्य, चतुरः पश्य, प्रियानडुही कुले, प्रियचतुरी कुले । इह शेषे घुटि वादेशविधानात् पूर्वत्रामन्त्र्ये साविति संबध्यते ।। ८२ ।।
न्या० स०--वाः शेष इति । इह शेष इति-अत्र सूत्रे शेषस्य घुट आघ्रातत्वाद् 15 एतत्सूत्रमुक्तः प्राक्तनसूत्रविषय इति भावः ।। ८२ ।।
सख्युरितोsशावेत् ॥ १. ४. ८३ ॥
सखिशब्दस्येकारान्तस्य तत्सम्बन्धिन्यन्यसम्बन्धिनि वा शिवजिते शेषे घुटि परे ऐकारोऽन्तादेशो भवति । सखायौ, सखायः, सखायम्, सखायौ, हे सखायौ !, हे सखायः !, सुसखायौ, प्रियसखायः । अशाविति किम् ? 20 अतिसखीनि, प्रियसखीनि कुलानि तिष्ठन्ति, पश्य वा। इत इति किम् ? इमे सख्यौ, सखीयतीति क्यनि क्विपि-सख्यौ, सख्यः । घुटीत्येव ? सखीन्, सख्या। शेष इत्येव ? हे सखे ! । इदमेवेद्ग्रहणं ज्ञापयति-नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् एकदेश विकृतमनन्यवद् ५' इति च ।। ८३ ।।
न्या० स०–सख्युरित्यादि। ननु प्रक्रियालाघवार्थं “सख्युरितोऽशावाय्” इति25